________________
नवममाह्निकम्
495 *हस्वदीर्घयोश्च कथं परस्परा'पेक्षग्रहणयोरर्थेनैकतर आकारः पारमार्थिकः स्यात् ? ॥
ज्ञानानां तु भिन्नत्वात् विचित्रवासनाभेदसहकारिरूपानुविधानेन जायमानानां न किंचिदपि विरोधः ||
तस्मात् ज्ञानमेवेदं सर्वत्र तथा तथा प्रतिभाति, न तद्व्यतिरिक्तो ऽर्थो नाम किंचिदिति ज्ञान एव चैकत्रायं प्रमाणप्रमेयप्रमितिव्यवहारः परिसमाप्यते। तस्य हि विषयाकारता प्रमेयम् , ग्राहकाकारता प्रामाणम् , स्वसंवित्तिश्च फलमिति। यथोक्तम्--
'यदाभासं प्रमेयं तत् प्रमाणफलते पुनः । 'ग्राहकाकारसंवित्त्योः त्रयं नातः पृथक्कृतम्' इति ॥ तदिदं अनाद्यविद्यावासनाविलासविपर्यासिततत्त्वदर्शनतया ज्ञानमेव प्राग्राहकसंवित्तिभेदवदिव लक्ष्यते। अविद्याविरतौ तु स्वच्छमेव तत्संपद्यते, न किंचिद्वेति ॥ तदुक्तम्
'नान्योऽनुभाव्यो बुद्धयाऽस्ति तस्या नानुभवोऽपरः ।
ग्राह्यवाहकवैधुर्यात् स्वयं सेव प्रकाशते ॥ तथा
'अदिमागोऽपि बुद्धयात्मा विपर्यासितदर्शनैः। ग्राहाग्राहकसंवित्तिभेदवानिव लक्ष्यते ॥'
* ह्रस्वत्वदीर्घत्वादिकं बुद्धि कृतमिति हि सर्वसंमतम् ॥ * बौद्धाः किल नैरात्म्यवादिनः। अतः 'प्रमाता' इति विभागः नास्ति
1 रा-ख,
वै-च,
यमे-ख.