________________
न्यायमञ्जरी
लभ्यते इत्यन्वयव्यतिरेकाभ्यामपि ज्ञानाकारत्वमवगच्छामः । यदि च ज्ञानादर्थः पृथगवस्थितात्मा भवेत्, ज्ञानमन्तरेणाप्यसावुपलभ्येत ; न चैवमस्ति । तस्मादभेद एव ज्ञानार्थयोः ।
यदाह
'सहोपलम्भानियमादभेदो नीलतद्धियोः' इति ॥
494
[ आकारस्य ज्ञानार्थमेलन कृतस्व निरासः ]
न च * ज्ञानार्थसंसर्गधर्म आकारो भवितुमर्हति । यदि हि पृथगर्थ - मनाकारं, पृथक् ज्ञानमानाकारी उपलभ्य, संसृष्टयोर्ज्ञानयोराकारवत्ता मुपलभेमहि, तत इममाकारं संसगंधर्मं प्रतिपद्येमहि । न त्वयमस्ति क्रमः । अर्थरहितत्वेऽपि च स्मरणस्वप्नादिज्ञानानामाकारवत्त्वमस्तीत्युक्तम् । अतः कथं संसर्गधर्म आकार: ?
[ अर्थाकाराणां कल्पितस्वमावश्यकम् ]
अपि च नक्षत्रं तारका तिष्य इति कथमेकस्मिन्नर्थे परस्परविरुद्धलिङग समावेश: ? ॥
परिव्राजक कामुक कौलेयकानां च कथमेक एव वनितारूपोऽर्थः कुणप इति कामिनीति भक्ष्यम् इति च प्रतिभासत्रितयविषयतामनुभवेत् ? ॥ दारा इति कथमेकैव स्त्रीव्यक्तिः पुंवचनबहुवचनविषयतां यायात् ? ||
षण्णगरीति च कथं बहनामन्य लिङगानामेकता स्त्रीलिङगता च भवेत् ? ॥
*
आकारः ॥
1
ज्ञानस्य,
ना-ख,
अर्थस्य च यः संसर्गः परस्पराभिमुखीभवनम्, तत्कृतः
2
वश्व - ख.
-