________________
नवममाह्निकम्
493 इत्युच्यमाने, अर्थाकारस्तावत् साकारेण ज्ञानेन गृहीतः। स इदानी ज्ञानाकारोऽपि ग्राह्यत्वात् साकारज्ञानान्तरं भवेत्। तदपि साकार ज्ञानान्तरं तथाभूतज्ञानान्तर ग्राह्यमेव स्यादित्यनिष्टम् ॥
अथ स्वप्रकाशं तत् साकारं ज्ञानमिष्यते, तेन ज्ञानान्तरानपेक्षणात् नानवस्थेति ; तहि स्वप्रकाशप्ताकारज्ञानव्यतिरिक्तार्थाकारान. वभासात् तदेवास्तु, कुतो द्वितीय इदानीमर्थाकारः
[विषयमिथ्यात्वेऽपि ज्ञानस्याकारसंभवः ] न चान्यथानुपपत्त्या*sपि तत्कल्पना युक्तिमती। न हि राज. शासनमिदं अर्थेनाकारवता भवितव्यमिति । ज्ञानमेव नीलाद्याकारं यदि भवेत् को दोषः स्यादिति। नीलाद्याकारयोगात् अर्थस्स भवेदिति चेत्, संज्ञायां विवाद इत्युक्तम्। द्वितीयस्याभावात् स्वच्छत्वात् ज्ञानस्य कालुष्यमन्यकृतं युक्त मिति चेत्, अविद्यावासनाकृतं तद्भविष्यति। स्वतः स्वच्छमपि ज्ञानमनाद्यविद्यावासनाविम वोपनतम नेकाकारकालुष्यरूषित. वपुरिव प्रकाशते ॥ ___ ज्ञानवासना दसन्तानयोश्च बीजाङकुरवंदनादित्वान्नात्र पर्यनुयोगस्यावसरः-'कुतो वासना प्रवृत्ता' इति । तस्मादनादिवासनावैचित्र्यरचितज्ञानवैचित्र्योपपत्तेः कृतमनुमेयेनापि बाहोनार्थे नेति ज्ञानस्यैवायमाकार इति सिद्धम् ॥
[ज्ञानातिरिक्तार्थनिराकरणम् ] अतश्च 'ज्ञानस्यैवायमाकारः, ज्ञानेन विना हि न क्वचिदर्थरूपमुपलभ्यते । ज्ञानं त्वर्थरहितमपि गन्धर्वनगरमायादिषु विस्पष्टमुप.
* अन्यथानुपपत्या-विषयमन्तरा स्वतः ज्ञानस्याकारान्यथानुपपत्त्या ॥
1 र-ख,
2 पे-ख,
३ त-खं,
वेन तत्तद-ख,
ज्ञा-ख.