________________
492
न्यायमञ्जरी इत्थं सत्यपि बाह्येऽर्थे ज्ञानस्याकारकल्पना। भवेदेवेति तत्रैव सन्तुष्य स्थीयतां वरम् ॥
[विज्ञानवादिन सौंत्रान्तिकखण्डनम् ] ये 'तु ब्रुवन्ते-ज्ञानस्य स्वतः स्वच्छस्वभावत्वेन नीलपीताद्यवभासः परोपाधिरेव भवितुमर्हति, स्फटिकस्येव लाक्षादिनाऽरुणिमाद्यनु. वेधः । अतः पृथगननुभूयमानोऽपि बाह्योऽर्थः साकारज्ञानावभासा. न्यथाऽनुपपत्त्याऽनुमीयते। यथोकतं-'बाह्यसिद्धिः स्याद्व्यतिरेकतः' *इति ॥ तदिदमनुपपन्नम्-अन्वयानुपलब्धेः
'अर्थे "हि संति साकारं निराकारं तदत्यये ।
नित्यानुमेयबाह्यार्थवादी ज्ञानं क्व दृष्टवान् ॥' .. लाक्षास्फटिकादौ तु तथा युक्तम्, तदनुरक्तस्फटि कशकला'वलोकनात् । इह पुनः
अर्थेन रज्यमानं हि निराकारं निसर्गतः । ज्ञानं न खलु पश्यामः लाक्षया स्फटिकं यथा ॥
[ आकारद्वयं तु अनुभवविरुद्धम् ] आकारद्वय प्रतिभासो हि नास्तीत्युक्तम् । अभ्युपगमे वा सुदुस्त रमनवस्थादूषणम्। अर्थाकारश्च प्रत्यक्षः, तत्कृतश्च ज्ञानाकारः प्रत्यक्षः
प्राप्तेः साकारज्ञानवादिनस्ते इत्युच्यते । एवं ज्ञानाकाराङ्गीकारादेव विषयस्यापलापः . कर्तुं शक्यते, आकारद्वयानुपलंभादिति । विषयासान्निध्ये तु ज्ञानं निराकारंनिर्विषयम् अवतिष्ठते। ततश्च निराकारज्ञानवादः अन्यः, निरालम्बनज्ञानवाद. पययिः निर्विषयज्ञानवादश्चान्यः ॥
* व्यतिरेकतः-अर्थाभावे ज्ञानाकारासिद्धेः, लाह्यार्थसिद्धिः ॥ .
1 तु-ख, " ज्ञानं हि-ख, ३ का-ख.
प्रतीति:-ख, । दुरुत्तर-ख.