________________
नवममाह्निकम्
491 [ ज्ञानस्य विषयसंबन्धासाकारत्वम् ] , इतश्च साकारं ज्ञानम्, आकारवत्तामन्तरेणास्य प्रतिकर्मव्यवस्थानु. पपत्तेः। कल्पयित्वाऽपि बाह्यमर्थम् अवश्यमाकारवत्ता विज्ञानस्य विषयनियमसिद्धये वक्तव्या। नीलज्ञानं हीदं अनेकसन्निधाने समुपजायमानं कथमखिलतदितरपदार्थपरिहारेण केवलनीला लम्बन तामवलम्बेत.? बोधस्वभावतायाः सर्वान प्रत्यविशिष्टत्वात । प्रवत्तिरपि प्रेक्षापूर्वकारिणां कथं तदेकविषयैव स्यात् । न च नीलजनित त्वकृत .एष तदधिगमनियम इति कथयितुमुचितम् , आलोकलोचनादिकारकान्तरजनितत्वस्यापि भावेन तद्विषयत्वप्रसङगात् । अतो *नीलाकारतव नीलविषयत्वव्यवस्थाहेतुः: न निमित्तान्तरम् । आह च
'तंत्रानुभवमात्रेण ज्ञानस्य सदशात्मनः । भाव्यतेऽनात्मना। येन प्रतिकर्म विभज्यते' इति ॥
... [ज्ञानस्यैव प्रमाणत्वं फलत्वं च ]
अत एव आकारग्रहणमेवातिशयमाश्रित्य तमबर्थसमर्थने सति साध. कतमं ज्ञानमेव प्रमाणं भविष्यति। अपरथा कारकातिशयदर्शनाभावे तत्तत्साधकतमत्वस्य दुरुपपादत्वात्। साकारज्ञानसाक्षी च लौकिकोऽपि दृश्यते व्यवहारः । एवं च वक्तारो भवन्ति लौकिकाः, 'नीलोऽर्थोऽयं, यतोऽत्र 'तदा कारं ज्ञानमुत्पन्नम्', इति। तेन प्रतिकर्मनियमान्यथानुपपत्तेः अवश्यं साकारमेव ज्ञानम् ॥
* यदा च ज्ञानमेवार्थाकारं जातम्, तर्हि अर्थः प्रत्येकं मा स्तु ॥ * अनात्मना-ज्ञानातिरिक्तेन ॥
* यद्यपि बौद्धाः निराकारज्ञानवादिनः, परन्तु 'अर्थे सति च साकारं निराकार तदत्यये' इत्युक्तेः, सांख्यमतेऽन्तःकरणस्य विषयाकारप्राप्तिवत्, ज्ञानस्य अर्थाकार
1 नुलग्न-ख,
'त्वेनार्थ-ख,
व्यं ते-ख.
नीला-ग,