________________
490
अतः यदेव तस्योत्पादः, तदैव ग्रहणमवश्यं भवेत् । न स्यात् ॥
[ ज्ञानस्य स्वप्रकाशत्वम् ]
किं हि तस्य कालान्तरे भविष्यति, किं वा तदा नाभूत् ; येन तत् कालान्तरे ग्रहीष्यते, तदा च न गृह्यत इति । ज्ञानान्तरेण कालान्तरे तद्ग्रहीष्यत इति चेत्, तदपि केन ग्राहोज्यते ? अन्येनेति चेत्, तदव्यन्येति कोऽवधिः ? श्रम इति चेत् कामं श्रन्तो विरंस्यति भावन् अर्थं तु न गृहीतवानेव, प्रकाशाग्रहणे तत्प्रकाश्यपरिच्छेदायोगादित्येवं न कदाचिदर्थग्रहणं स्यात् । तस्मादर्यग्रहणवादि' नापि पूर्वं ज्ञानग्रहणमवश्याश्रयणीयम् । यथोक्तं
"
* अप्रत्यक्षोपलम्भस्य नार्थदृष्टिः प्रसिध्यति' इति ॥ [ प्रथमं ज्ञानस्यैव भानम् ]
अतश्चैतदेवम् – ज्ञानपृष्ठेन 'चोत्तरकाल' भाविप्रत्यवम' र्शदर्शनात् । 'ज्ञातो मयाऽयमर्थ:' इति हि प्रत्यवमृशन्तः प्रमातारः प्रथमं ज्ञानग्रहणमनुमोदन्ते । न ह्यगृहीतविशेषणा विशेष्यबुद्धिर्भवति । तस्मादपि पूर्व ज्ञानग्रहणमिति सिद्धम् ॥
ज्ञानं च गृह्यमाणं आकाररहितं ग्रहीतुमशक्यमिति बलात् साकारमेव तत् ग्रहीतव्यम् । साकारे च ज्ञाने गृहीते सति* द्वितीयकारणाभावात् कुतो ज्ञानातिरिक्तो बाह्योऽर्थः ?
न्यायमञ्जरी
न चेत् कालान्तरेsपि
* यस्य ज्ञानं न प्रत्यक्षम् तस्य तद्विषयस्याप्यभानमेव ॥
द्वितीयस्य ग्राह्यस्याभावादिति भावः ॥
1 नां-च,
2
म- ख.