________________
नवममाह्निकम्
489 योगात् ग्राह्यत्व*मन्यथा न स्यादिति ग्राहकान्तरकल्पनाऽवश्यंभाविनीति कल्पनाद्वैगुण्यम् ॥
अथार्थ एव ग्राह्यात्मा यः, स एव ग्राहक इति कथ्यते, सतहि प्रकाश एवेति संज्ञायामेव विवादः स्यात् । बाह्याभ्यन्त रकृती विशेष ईति चेत्, अहो विशेषज्ञो देवानांप्रियः। ग्राहकाद्विच्छिन्नता हि ग्राह्यस्य बाह्यता। नं शरीरापेक्षिणो बाह्यता भवंति। यदा च ग्राह्यादर्थात अव्यतिरिक्त एवं ग्राहक इष्यते, तवाऽस्य न त'तो विच्छिन्नतेति अबाह्यत्वात् ज्ञानमेव तदिति कथं न नाम्नि विवादः ॥
उभयसिद्धत्वात् ज्ञानस्य तस्यायमाकारी भवितुमर्हति। ज्ञाने हिं न केचन विवदन्ते। अतस्तस्यैवायमाकार इति युक्तमनेककल्पनातो ह्येकार्थकल्पना ज्यायसीति ।
[ज्ञानस्यावश्यकत्वे हेत्वन्तरम् ] अतश्च ज्ञानस्यायमाकारः। ज्ञानं हि प्रकाशकम् अप्रकाश स्यार्थस्य भवद्भिरभ्युपगम्य॑ते । ततश्च अर्थात् प्रथमतरमस्य ग्रहणेन भवि. तव्यम्। अगृहीतस्य दीपादेः प्रकाशस्य प्रकाशकत्वादर्शनात्। उत्पनेष्वपि च घटादिष्वर्थेषु प्रकाशवैकल्याद्वा, प्रतिबन्धवैधुर्याद्वा भवत्यग्रहणम्। ज्ञानस्य तूत्पन्नस्य सतः न किंचिद्ग्रहणे प्रतिबन्धकः। न च प्रकाशकान्तरापेक्षणम्, स्वत एवं दोपवत् प्रकाशस्वभावत्वात् ।
.* अन्यथा ज्ञान प्रकाशकमन्तरा ॥ * ज्ञानस्य, अर्थस्येति द्वितयकल्पना ॥ * अन्यथा ग्राहकत्वासंभवः॥ ६ प्रकाशकान्तरापेक्षायामनवस्था ।
1 त-ख,
'न-ख,
ईश:-च,
श्व-च.
वा-खे.