________________
488
न्यायमञ्जरी [ विज्ञानाद्वैतसमर्थनम् ] ननु ! प्रत्यक्षादिना प्रमाणेन परस्परविसदृशपदार्थस्वरूपसंवेदनस्य दशितत्वात् कथं विज्ञानस्यायनवमासः, अर्थाभावे तत्स्वरूपानुपपत्तेः । ग्राह्यग्रहणं हि नाम विज्ञानं भवति, 'न *ग्रहण' ग्रहणमिति ॥
उच्यते-इदं तावत्परीक्ष्यताम् । यदेतत् प्रत्यक्षविज्ञानं 'नीलमिदम्' 'पीतमिदम्' इत्युत्पद्यते, तत्र किमेक आकारः प्रकाशते, उत द्वितयः मिति ॥
[ आकारद्वयानुपलभः] यदि द्वितयमवभाति अयमर्थो नीलम, इदं तज्ज्ञानमिति, तत किमत्र विचार्यते, जितं भवद्भिः। जितस्य यदापद्यते तदस्मासु विधीयताम् ॥
अथ एक एवाय'माकारः प्रथते, तहस्ति विचारावसरः। कस्या यमाकारः, किमर्थस्य, किं ज्ञानस्येति । स चैवं विचार्यमाण. आकार: यद्यर्थस्येति तद्भवन्तो जेष्यन्ति। ज्ञानाकारपक्षे तु वयं जेष्याम इति ॥
[ज्ञानस्यावर्जनीयस्वम् ] किं तावदत्र युक्तम्। ज्ञानस्यायमाकार इति । कुतः ? कल्पना 'तावदिहाल्पीयसीति। अर्थाकारपक्षे हि अर्थस्य जडात्मनः प्रकाशा
* स्वप्रकाशज्ञानमात्रमिस्यर्थः। निर्विषयस्य कथं ज्ञानत्वमित्यर्थः ।।
परन्तु आकारद्वयानुपलंभान भवतां विजयः॥
1 न-ख,
३ व-ख,
३ भवति ह्य-ख.