SearchBrowseAboutContactDonate
Page Preview
Page 520
Loading...
Download File
Download File
Page Text
________________ नवममाह्निकम् अहं प्रत्ययस्य प्रत्यगात्मवृत्तेः *परत्रासम्भवात् । जगद्वैचित्र्यस्य च पुरुष भेदनियतधर्मनिबन्धनस्यान्यथानुपपत्तेः । आत्मभेदस्य विस्पष्टसिद्धत्वात् ॥ तप्त लोहस्फुलिङकघटाकाश पादवेदनादिदृष्टान्तकदम्बकस्य च निषेधः कृत एवेति एकात्मवादोsपि न युक्तिमा नित्यलं विस्तरेण ॥ 487 [ शब्दविवर्तवादोपसंहार : ] शब्दस्यायं विवर्तः कथमखिलमिति प्रस्फुरत्तद्विविक्त. स्वाकारोऽर्थप्रपंचः कथमिव विकृतिः ब्रह्मणो वेदृशी स्यात् । तस्मान्नानात्मतत्त्वो परिचितसदसत्कर्मपाकानुसारप्रादुर्भूतेश्वरेच्छावशविचलदणुप्रोद्भवो भूतसर्गः ॥ [विज्ञानाद्वैतवादः ] एवं स्थितेषु सर्वेषु तूष्णीमद्वैतवादिषु । विद्वानाद्वैतवादी तु पुनः प्रत्यवतिष्ठते ॥ सत्यमनुपजननमनपायमपरिमितमद्वयं ब्रह्मन युक्तिमदिति युक्त एव तदनभ्युपगमः । विज्ञानमेव तु क्षणिकं उपजननापायधर्मकं अनादिसन्तानप्रबन्धप्रवृत्तमिदं तथा तथाऽवभातीति न ततोऽद्वितीयमर्थरूपं नाम किंचिदस्तीति पश्यामः ॥ * ऐकात्म्यवादे हि अहमर्थः न आत्मा, किन्तु अन्तःकरणमेव ॥ + अनेकात्मगर्भ इति भूतसर्गविशेषणम् ॥ 1 वे पर - ख.
SR No.002266
Book TitleNyayamanjari Part 02
Original Sutra AuthorN/A
AuthorK S Vardacharya
PublisherOriental Research Institute
Publication Year1983
Total Pages794
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy