________________
486
- न्यायमञ्जरी इति-तदापि ब्रह्म *सुभिक्षमत्यन्तमलौकिकम्। 'एक'तरस्य ब्रह्मणः काल्पनिकत्वात्। अकाल्पनिकत्वे वा कथमद्वैतवादः । तस्मात् कृत. मनेन शब्दब्रह्मणा । स्वस्ति परस्मै ब्रह्मणे भूयात् ॥
अविद्यामायाविनिर्मितविविध भेदप्रथनकल्पश्च सत्ताद्वैतदूषणावसर एव निवारित इति शब्दाद्वैतमपि तद्वदसमंजस मिति सिद्धम् ॥
[जगतः ब्रह्मोपादानस्वनिरासः] एतेन परमात्मोपादानत्वमपि प्रत्युक्तम्। परमात्मनो निसर्गः निर्मलस्य एवंप्रायकलुषविकारकारणत्वानुपपत्तेः ॥
असत्यमेव विकारजातं अविद्यातः परमात्मनि विभातीत्येतदपि दूषितम्। अतः सर्वथा नाद्वैतपक्षः कश्चिदनवद्यः ॥
[ ऐकात्म्यवादेऽनुपपत्तयः] . अथ सर्वप्राणिनामेक एवात्मा, न नानात्मानः-इतीदृशमुच्यतेतदप्यप्रमाणकम्-एकस्मिन् सुखिनि न सर्वे सुखिनः, एकस्मिन् दुःखिते न सर्वे दुःखिताः इति व्यवस्थादर्शनात् । आत्मपरव्यवहारस्य च सर्वजनप्रतीतिसिद्धस्य दुरपह्नवत्वात् । अन्यदृष्टे च सुखदुःखसाधने वस्तुनि स्मरणानुसन्धानपूर्वकेच्छाद्वेषादिकार्यजातस्यान्य त्रा'नुपलम्भात् । एक स्मिश्च वीतरागे मोक्षमासादितवति संसारिणामन्येषामानन्त्यदर्शनात् ॥
* सुभिक्षम्-इति नर्मोक्तिः ॥
परे ब्रह्म एकमेवेति नाद्वैतहानिः इत्यपि न-तर्हि 'द्वे ब्रह्मणी' इति कथनमयुक्तं स्यात् ॥
* अयमेव ब्रह्मपरिणामवादः भर्तृप्रपञ्चादिसंमतः शंकराचार्यादिदूषितश्च ॥
1 इ-च, घ,
प्र-ख,
३ म-ख,
था-च.