SearchBrowseAboutContactDonate
Page Preview
Page 518
Loading...
Download File
Download File
Page Text
________________ नवममाह्निकम् 485 बाधकवशात् तथात्वमवगतम्। इह तु 'न बाधकं किंचिद्भवति, भविष्यति वेति वणितम् ॥ _ [शब्दानुवेधोऽपि न साधीयः] - अथ स्वानुवेधम'जहत् सत्यामसत्यां वाऽर्थबुद्धिमादधाति शब्द - त्ययं विवर्तार्थः-एषोऽपि संप्रत्येव प्रतिक्षिप्तः। शब्दानुवेधविरहिणीनां प्राचुर्येण प्रतिपत्तीनां प्रदर्शितत्वात्। न चान्यः कश्चि द्विपश्चिच्चेतसि वि'वर्तते विवर्तप्रकारः इत्यवाचकमुच्यते-'विवर्ततेऽर्थभावेन' इति ॥ [शब्दस्य जगत्स्ष्कृत्वनिरासः ] अथ शब्दब्रह्मैव सृजति जगदित्ययं विवर्तप्रकार उच्यते-सोऽपि न सम्यक-अचेतनत्वेन शब्दस्य ईश्वरस्येव स्रष्तृत्वानुपपत्तेः। न च परमाणुवदस्य कारणत्वम् , अवयवसमवायित्वेन* पृथिव्यादेः कार्यस्य ग्रहणात् || . . अथ 'विज्ञानमानन्दं ब्रह्म' इत्यागमवचनमनुसरता विभुत्वमिव चेतनत्वमपि शब्दब्रह्मणो वर्ण्यते-तहि ईश्वरस्यैव शब्दब्रह्मेति नाम कृतं • स्यात् .. [ब्रह्मद्वैविध्यनिरासः] यदप्युच्यते. 'द्वे ब्रह्मणी वेदितव्ये शिब्दब्रह्म, परं च यत् । शब्दब्रह्मणि निष्णातः परं ब्रह्माधिगच्छति' . . * न तु शब्दसमवायित्वेन ॥ + शब्दब्रह्म-अपरं ब्रह्म । परं ब्रह्म-परमात्मा ॥ 2 परिव-ख, । न्ती-ख.
SR No.002266
Book TitleNyayamanjari Part 02
Original Sutra AuthorN/A
AuthorK S Vardacharya
PublisherOriental Research Institute
Publication Year1983
Total Pages794
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy