________________
484
न्यायमञ्जरी [विवर्तवाद एवासमर्थनीयः ] विवर्तवादोऽपि न समंजसः। तथा हि-*विवर्ततेऽर्थभावेन' इति कोऽर्थः ? न तावदर्थात्मना शब्दः परिणाममुपयाति', क्षीरमिव दधिरूपेण, परिणामित्वेन विकारितया वा क्षीरादेरिवानित्यत्वप्रसङगात् । तथाभावेऽपि च नाद्वैतसिद्धिः दध्न इव क्षीरविकार स्य, शब्दविकार. स्यार्थस्य ततोऽन्यत्वात्। अन्यत्वाच्च बाधकारणकालुष्याद्युपप्लवविर 'ह'प्रतीतिसमर्पितभेदत्वात् ॥
[अर्थप्रतिभासस्यायथार्थत्वपक्षनिरासः] अथार्थप्रतिभासमसत्यमपीन्द्रजालवदुपदर्शयति शब्द इत्ययं विवतॊऽर्थः, सोऽपि न युक्तः । बाह्यस्य वस्तुनः पदाभिधेयस्य जातिव्यक्त्यादेः। वाक्यवाच्यस्यापि भावनादेः पूर्वप्रसाधितत्वात्। अवयवव्यादे. चादूर एवाग्रे समर्थयिष्यमाणत्वात्। न चेन्द्रजालमायादिवदयथार्थतायामिह किमपि कारणमुत्पश्यामः ||
[अर्थानां मिथ्यात्वपक्षनिरासः ] __ अथार्थरूपेण शब्दः शुक्तिरिव रजताकारतयाऽवभासत इतीयं विवर्तवाचो युक्तिः-इयमपि न साधीयसी-शुक्तिका हि. रजतव. त्प्रकाशत इति शक्यं वक्तुम् , शुक्तेराकारसारूप्येण तथाऽवभाससम्भ. वात् । इह तु शब्दार्थयोरत्यन्तविसदशवपुषोराकारसमारोपकारणानवधारणात् कथमितररूपेणेतरस्यावभासः । शुक्तिकारजतादिषु च
___ * वाक्यपदीये हि 'विवर्ततेऽर्थभावेन' 'यत्तस्य परिणामोऽयम्' इति विवर्तपरिणामशब्दौ पर्यायतया बहुलं प्रयुक्तौ ॥
1 ते-ख,
स्या-च,
हितकिसलय-ख,
र्थित-ख.