________________
483
‘नवममाह्निकम् बुध्यामहे- शब्दादर्थस्य पृथग्व्यवस्थितात्मनः 'त्व'न्मते दुर्लभत्वात्। शब्दव्यतिरिक्तार्थोपगमे वा किमनेन शब्दाध्याससमर्थनाडम्बरेण? विरम्यताम् अतो मृगतृष्णानुसरणरणिकात् ।।
[शब्दे अर्थाध्यासासंभवः ] अपि चाध्यासः क्वचित्सादृश्याद्भवति, शुक्ताविव रजतस्य । क्वचि दनुरागाद्भवति, लाक्षाया इव स्फटिके। शब्दार्थयोर्मूर्तामूर्ततयाऽतिदूरभिन्नस्वरूपयोः सादृश्यं तावदनुपपन्नम्। अनुरागोऽपि तत एव दुर्घटः, पृथग्देशत्वात् , भिन्नेन्द्रियग्राह्यत्वाच्च ।
. [ शब्दार्थयोबिम्बप्रतिबिम्बभावासंभवः ] प्रतिबिम्बवर्णनमपि न सुन्दरम् , दूरदेशत्वेन शब्दार्थयोः प्राप्त्यभावात्। अप्राप्तयोश्च प्रतिबिम्बे द्वारकोद्याननिवासि वासुदेवसुन्दरीवदनतामरसानि सागरतरङगपवनपरिचयचलदलकलतिकालांच्छितानि स्वच्छेषु ज्योत्स्नावदांतद्युतिषु तुष रगिरिगह्वरगततुहिन शिलाकर्पूरदर्पणेषु प्रतिबिम्बितानि दृश्येरन् ।
अथो सर्वगतत्वेन शब्दानामर्थदेशे प्राप्तिरभिधीयते, तहि सकलशब्दसार्थसाधारण्यात अत्यन्तमध्याससाङकर्यम् अनवधार्यमाणविशेषनियमकारणमापद्यत इत्यलमतिप्रसङगेन। सर्वथा न संबद्धः शब्दाध्यासवादः ॥
* अनुराग:-अनुरञ्जनम् ॥ - तन्ते शब्दस्यैव ब्रह्मस्वात् ॥
___1 तख,
सु-च.