________________
482
भ्यायमञ्जरी ल्लक्षणस्यानुपलक्षणात् । वृक्षप्लक्षशब्दयोश्च घटपटशव्दयोरिव स्वरूपभेदा विशेषात् , अर्थानपेक्षित्वाच्च विशेषणविशेष्यभावसामानाधिकरण्ये शब्दा. ध्यासवादिनो न भवेताम् । न ह्येकत्र वस्तुनि वाच्ये क्वचिदनयोः शब्द. योवृत्तिः॥
एतेन नीलोत्पलमपि प्रत्याख्यातम् ।।
[शब्दविवर्तवादे सामानाधिकरण्यासंभवः ] तत्रैतत्स्यात्-न नीलगुणविशेषि'तमिदं उत्पलं नाम किंचिदस्ति विशेष्यम् , अपि तु तत् निरस्तावयवार्थ अश्वकर्णादिवत् *अर्थान्तर मेवेदं ; व्युत्पत्तिप्रकारमात्रं तु विशेषणविशेष्यभाववर्णनमिति-तदेतदसमीचीनम् - अनुभूयमा नावयवार्थप्रतीतिनिह्नवनिमित्तानुपलम्भात् । अश्वकर्णादौ हि युक्तमर्थान्तरत्वं ; तत्र हि नाश्वार्थः: न कर्णार्थः । निरवयववाक्यार्थवादश्च प्रागेव विस्तरेण निरस्त इत्यलं पुनरुक्तालापेन ॥
- [शब्दविवर्तवादे पर्यायपदानां सामानाधिरकरण्यं स्यात् ] .
अथ शब्दद्वयाध्या समात्र निबन्धनमेव सामानाधिकरण्यं 'वृक्षः' लक्षः' इत्युच्यते तदपि न चार-वृक्षस्तरुरितिपर्याययोरपि तत्संभवे सति सामानाधिकरण्यप्रसङगात् ॥
अपि च पर्यायषु 'हस्तः' 'करः' 'पाणिः' इत्यादिषु शब्दरूपभेदाध्यासपक्षे अर्थबुद्धिभेदः प्राप्नोति । न चासावस्तीति नाध्यासः॥
किंच संबन्धग्रहणनिरपेक्षोऽपि शब्दः स्वसामर्थ्यमनुरुध्यमानः स्वाध्यासेन बुद्धि विदध्यात्। तदपेक्षायां वा कस्य केन संबन्ध इति न
___ * प्रकृते शब्दतत्त्वरूपम् ॥
1 त-ख,
न-च,
स-ख