________________
481
नवममाह्निकम्
[ नानार्थकस्थले शब्दार्थयोरभेदासंभवः ] एवं इन्द्रियजेष्विव शान्देष्वपि प्रत्ययेषु न शब्दस्वरूपमध्यस्यतीति युक्तम् । यदि च शब्द: स्वरूपेणार्थं प्रतिपादयति, तदा अ'क्षशब्दस्यक्यात् देवन विभीतकरथाक्षेषु तुल्या प्रतीतिः स्यात् । न चाक्षशब्दाः भिन्ना इति वक्तव्यम् , *स्वरूपप्रत्यभिज्ञानानपायात्। तदुच्चारणे चार्यत्रयां संशयदर्शनात् ॥
भवतिशब्दयोश्च सुप्तिङन्तयोः तुल्य रूयत्वात्। अध्यासपक्षे तुल्या. र्थप्रतीतिहेतुत्वं प्राप्नोति। तथा च * सिद्धसाध्यबुद्धिः संवेद्यमानापि निर्येत । एवमगादित्यश्व इति, अजावय इत्यादावपि द्रष्टव्यम् ॥
[शब्दे अर्थाध्यासः विरुद्धश्व ] शब्दस्य सिद्धरूपत्वात् तदध्यासेनार्थबुद्धाविष्यमाणायां 'यजेत' 'दद्यात्' जुहुयात्' इत्यादौ न क्वचित् साध्यबुद्धिर्भवेत्, सिद्धाध्या. सेन साध्यबुद्धेरननुरूपत्वात् ॥
जातिगणक्रियाशब्दाश्च गौः शक्लो गच्छतीत्यादयः केन कारणेन नियतमध्यासमनुरुन्धत इति नावगच्छामः। शब्दस्यार्थानपेक्षनिसर्गसिद्धवैश्वरूप्यकल्पनाबीजाभावात्। प्रतिनियतशब्दवृत्तेश्च कस्यचि
* विभीतक-फलविशेषः ॥ * उक्तार्थत्रयवाचिनः इति शेषः॥
* तिङन्तस्वे साध्यस्वम्, सुबन्तत्वे सिद्धस्वम् । एवं 'भगात्' इत्यादि सुबन्तं तिङन्तं च ॥
$ न हि तेजसि तमसः, तमसि तेजसो वाऽभ्याससंभवः ॥
12-च,
रू-ख,
३ सा-च,
' भवन्ति-च
31