________________
480
न्यायमञ्जरी तरधर्मावधारणाभ्युपायो भवति। न तत्रात्मानमारोपयति। न हि दीपेन्द्रियप्रभृतयः प्रतीत्युपायाः तदुपेये रूपादावात्मानमारोपयन्ति । अत एव तदुपायत्वभ्रमकृतस्तदभेदवादोऽपि न युक्तः ॥
न ह्युपायादभिन्नत्वं तदुपेयस्य युज्यते।। रूपस्य न ह्यभिन्नत्वं दीपाद्वा चक्षुषोऽपि वा ॥
[ अर्थस्य शब्दविवर्तत्वाभावः] अपि च यदि शब्दादभिन्नोऽर्थः प्रतिभात्येव, कोऽध्यासार्थः ? . 'अभेदेऽपि शब्दमयमेव विश्वमिति, तत्रापि कोऽध्यासार्थः ? अ'ध्यास भ्रमस्तु वैयाकरणानां *एकाकार निर्देश दोषनिर्मितः । यथाऽऽह (इलो वा. प्रस्यक्ष 182)
'गौरित्येव हि निर्देशः वाच्यस्तबुद्धि वाचि नाम्' इति। 'कस्त्वया दृष्टोऽर्थः' इति पृष्टो वक्ति 'गौः" इति । 'कीदृशं ते ज्ञानमुत्पन्नम्'-'गौः' इति । 'कीदृशं शब्दं प्रयुक्तवानसि''गौः' इति। तत एषा भ्रान्तिः । वस्तुतस्तु विविक्ता एवैते शब्दज्ञानार्थाः। तदुक्तम् (इलो. वा. प्रत्यक्ष 185)
'गवि सास्नादिसद्रपा गादिरूपाभिधायके । निराकारोभयज्ञाने संवित्तिः परमार्थतः' इति ॥
* 'गौः' इति शब्दः, अर्थः, प्रत्ययश्चेति त्र्यमपि हि निर्दिश्यते ॥ + वाच्यम्, तबुद्धिः, वाचकः शब्दश्च ॥
* मीमांसका अपि निराकारज्ञानवादिन इति चक्रधरः। परं तु निराकारज्ञानवादः अन्यः, अन्यश्च निरालम्बनज्ञानवाद इत्यवधेयम् ॥
1 अ-ख,
नाम्-ख,
गौः-ख,