SearchBrowseAboutContactDonate
Page Preview
Page 512
Loading...
Download File
Download File
Page Text
________________ नवममाह्निकम् 479 विशुद्धवस्तुग्रहणप्रवणेन्द्रियजप्रत्ययदर्शनात् । वृद्धव्यवहारपरिचयाधि. गतशब्दार्थसंबन्धसंस्कृत धियामपि शब्दस्मरणसंस्कारप्रबोधहेतुभूतप्रथमोदभूतविशुद्धवस्त्ववभासस्यापरिहार्यत्वात् । यत्रं हि वस्तुनि निविशमानः शब्दः शब्दविद्व्यवहारेषु योऽवधृतस्तद्दर्शने तत्संस्कारप्रबोधात् स हि स्मृतिपथमेति, नान्यथेति ॥ [प्रत्ययानो न शब्दानुविद्धत्वम् ] ____सामान्यशब्देष्वपि 'यत्' 'तत्' 'कि' इत्यादिषु विशेषशब्देष्विव सैव वार्ता। तेषामपि व्युत्पत्त्युपयोगविरहे विविधवनविहारि विहङगकूजितादिवदर्थप्रतीतिहेतुत्वानुपपत्तेः ॥ सविकल्पकदशायामपि न वाचकविशिष्टं वाच्यं मैचकगुणखचितमिव कुवलयमवलोकयति लोक इति विस्तरशः प्रत्यक्ष लक्षणे परीक्षितमेतत् । आह च (श्लो. वा. प्रत्यक्ष.172) 'न शब्दाभेदरूपेण बुद्धिरर्थेषु जायते। . प्राक्शब्दाद्याद शी बुद्धिः शब्दादपि हि तादृशी' इति ॥ . [अन साकं शब्दभानासंभवः ] ... संज्ञित्वमात्रमधिकर्मधुना ध्वनिसन्निधाने बुद्धिपधिरोहति, न तद्धि । शिष्टोऽर्थः। तस्य हि न नेत्रेण, न श्रोत्रेण, नोभाभ्यां, न केवलं मनसा वा ग्रहणमुपपद्यते, अतिप्रसङगात् । शब्दी हि अनेकधर्मके धर्मिणि एक * 'अनादिनिधन 'न सोऽस्ति प्रत्ययः' 'वान पता चेत्' इति श्लोकैरुक्तम्, शब्दस्य तत्त्वरूपत्वम्, सर्वप्रत्ययानां शब्दानुविद्धत्वम्, अर्थस्य शब्दविवर्तवं च ॥ 1 स्था-ख, 'ति-ख.
SR No.002266
Book TitleNyayamanjari Part 02
Original Sutra AuthorN/A
AuthorK S Vardacharya
PublisherOriental Research Institute
Publication Year1983
Total Pages794
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy