________________
20
... न्यायमञ्जरी ___. अपोहात्मनश्च तुरगादेः योऽपोहः, स तस्माद्विलक्षणः? अन्यथा वा? वैलक्षण्ये तस्य भावात्मता भक्ते। अवैलक्षण्य तु, यादृश . वापोह्यः तादृश एव तदपोह इति गौरप्यगौः स्यात् ॥
[अपोहवादे सामानाधिकरण्यानुपपत्तिः]. किंच अपोहशब्दार्थपक्षे नीलमुत्पलमित्यादौ विशेषणविशेष्यभावसामानाधिकरण्यादिव्यवहारा विलुप्येरन् । *न हि एकस्मिन्नर्थे द्वयोरपोहयोवृत्तिरुपपद्यते। न चैकः कश्चिदर्थोऽस्ति, यत्र तयोर्वत्तिः; स्वलक्षणस्याशब्दार्थत्वात् , अन्यस्य चासंभवात्। न च वृत्तिरपि का चिदस्ति ॥
[ सदादिपदानामवाचकत्वप्रसङ्गः ] "सद्ज्ञेयादि शब्दानां "अपोह्यनिरूपणासंभवात् नापोहवाचित्वम् । न ह्यसदज्ञेयं वा किंचिदवगतम् , यत् व्यवच्छिद्येत । ज्ञातं चेत्सदेष तत्, ज्ञेयं चेति। अतः कथं 'सच्छब्देन सदेव, जयशब्देन च ज्ञेयमेवापोह्यते। अज्ञातं तु न नितरा मोहम्। कतिपतं तु तत् ववतुमशवयम् , कल्पनयव सत्त्वात् , ज्ञेयत्वाच्च ॥
[अपोहपदस्यार्थो दुर्वच:] अपोहशब्दस्य किं वाच्यमिति चिन्त्यम् । अनपोहो न भवती
* न होत्यादि-स्वेतरल्यावृत्तिरूपत्वादपोहस्य, स्वेतरत्वेन सर्वस्यापि ग्रहणात् एकस्मिन् अपोहद्वयस्य न संभवः ।
" न चैक इत्यादि-धर्मद्वयाश्रस्यैकस्यिान्ननङ्गीकारत् ।।
* अनपोह इत्यादि-गौरित्युक्ते अगोभिन्नेतिवत्, अपोह इत्युक्ते अनपोह भिन्न इति खलु वक्तव्यम् ॥
-
'अपोह-ख,
व्यवच्छिद्यते-ख,
1 तेन चक:-क, • ज्ञेयं चेच्छब्देन-क,
असदूज्ञेयादि-ग, नितरा-ख.