SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ 19 पञ्चममाहिकम् [अपोहकल्पनावैय्यर्थ्यम् ] ____ अथ *गोप्रतिषेध एव वर्गीकरणहेतुरिष्यते, हन्त तहिं गौः पूर्वसिद्ध एषितव्यः, यत्प्रतिषेधेनागावः प्रतीयेरन्। पूर्वसिद्धे च गवि लब्धे किमगोभिः, किं वा तदपोहेन प्रयोजनम् ? . पूर्वसिद्धं गोस्वलक्षणमस्त्येवेति चेत्-न-तेन 'व्यवहाराभावात् । गोसामान्ये तु पूर्वसिद्धे मुधाऽपोहप्रयत्न इत्युक्तम् ॥ - [अपोहवादेऽन्योन्याश्रयः ] . अथ गोसामान्य मगोप्रतिषेधेन सिद्धयति, तदा दुस्तरमितरेतराश्रयम् अंगोनिषेधेन गोसिद्धिः, गोसिद्धया चागोनिषेधसिद्धि रिति। तस्मादपोह्यस्यैव निरूपयितुमशक्यत्वात् न तद्भेदादपोहभेदः सिद्धयति ॥ . [अश्वादीनामपोह्यत्वमप्यसंभवि] अपि चाश्वादयः सामान्यरूपेण वापोह्येरन ? 'तद्विशेषात्मना वा? न विशेषात्मना; तदनन्तत्वात् , अशब्दवाच्यत्वाच्च ॥ सामान्यात्मना तु तेषामप्यपोहरूपत्वादभावरूपत्वम्। कथं चा भावस्यवाभावः "क्रियेत'। करणे वा प्रतिषेधद्वययोगात् विधिरवतिष्ठत इति विधिरूपः शब्दार्थः स्यात् ॥ . . * गोप्रतिषेधः-गोभिन्नत्वमिति यावत् । अस्यानुगमकत्वं वक्तव्यं चेत् , गवि अश्वादिमिन्नत्वं पूर्वमवगन्तव्यम् । नो चेत् , अश्वोऽपि गौः स्यात् । एवञ्च गवि विलक्षणे प्रथममेव गृहीते अनन्तरं अपोहेन किं साधनीयम् ? ... व्यावृत्तं स्वरूपमेव हि स्वलक्षणमित्युच्यते। तत्र व्यावृत्तत्वज्ञानं तु अपोहेन भवतीति न वैयर्थ्यमिति भावः ॥ प्रतिषेधद्वयेत्यादि-अपोह्यस्य सामान्यरूपत्वे, अतिरिक्तसामान्यानङ्गीकारात् तदपोहरूपमेव स्यात् । तस्य व्यावृत्तिः गवि भासमाना अभावाभावरूपा अर्थात् भावरूपैव स्यादिति सिद्धं भावात्मकं सामान्यम् ॥ 1. किं-ख, '. विशेष-ख, २. व्यवहारात्-क, तदनङ्गत्वात्-ख, ३. मपोह-क, क्रियते-ख. '. दपोहस्सव-ख, .
SR No.002266
Book TitleNyayamanjari Part 02
Original Sutra AuthorN/A
AuthorK S Vardacharya
PublisherOriental Research Institute
Publication Year1983
Total Pages794
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy