SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ 18 . न्यायमञ्जरी अभ्युपगम्यापि ब्रूमः - ' यद्यपोह्य भेदात् अपोहभिन्नत्वं अपोक्या तहि तदैक्येनापि भवितव्यम् । अतश्च * गवाश्वयोरन्यापोहेन व्यवस्थाप्यमानयोः अगावोऽनश्वाश्च हस्त्यादयः अपोह्यास्तुल्या भूयांसो भवन्ति । असाधारणस्तु एकः गौरश्वे, गवि चाश्वोऽतिरिच्यते । 'तत्रैका 'पोह्यभदात् गवाश्वयोर्भेदो भवतु ! भूयसामपोह्यानामभेदादभेदो वा भवतु ! इति विचारणायां, 'विप्रतिषिद्ध' धर्म समवाये भूयसां स्यात्सधर्मत्वं' इत्यभेद एवं न्याय्यो भवेत् ॥ [ अपोहानां सांकर्य दुर्वारम् ] + अथासाधारण्यात् अश्वापोह' एव 'गोऽपोह' इष्यते स तहि सिहादावप्यस्तीति सोऽपीदानीं गौर्भवेत् ॥ अथाश्वादिविशेषोद्धोषरहित 'मगोरूपं व्यवच्छेद्यमुच्यते, तत् प्रत्येक ग्रहीतुमशक्यं, आनन्त्यात् । वर्गीकरणकारणं च किञ्चिन्नास्त्येव । ह सर्वेषामगवामश्वादीनामेकदेशत्वं, 'एक' कालत्वं वा समस्ति ॥ * गवाश्वयोरित्यादि । गवाश्वोभयविषयकं एकं जानं जदा यातं, तदा तदुभयातिरिक्तं हस्त्यादिकं सर्वं अपो भवति । वस्तुदृष्टया गो: अपोद्यः अश्वः अश्वस्यापोह्यः गौश्च तत्र अपोह्यसमुदायेन निविष्टौ भवतः । एतदुभयापेक्षया अपोह्यानां बहुत्वात् हस्त्याद्यपोहः गवि अश्वे च वर्तमानः एक एव भवेत् । तेन गवाश्वयोरभेदः एकजातीयत्वं सिद्धयेत् इति प्रघट्टकार्थः ॥ + असाधारण्यं हस्त्याद्य पोहापेक्षया ॥ + सः - अश्वापोहमात्रम् ॥ 8 प्रत्येक मित्यादि । गोभिन्ना हि अश्वगजादयः परस्परं विलक्षणा : अननुगताः ॥ 1 यद्यप्यपोक, " तंत्रेहा-ख, साधारणादश्वापोह - ख अथासाधारणाश्वापोह -क, • मागोरूप्यं - ख, 7 सकल-क, 3 4 अथ स्य - ख, # गोऽपोहेन व्यवस्थाप्य - ख, -
SR No.002266
Book TitleNyayamanjari Part 02
Original Sutra AuthorN/A
AuthorK S Vardacharya
PublisherOriental Research Institute
Publication Year1983
Total Pages794
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy