________________
476
न्यायमञ्जरी तदत्रायं वस्तुसङक्षेपः-अविद्यायामसत्यां सर्व एवायं यथोदाहृतो व्यवहारप्रकारः तत्कृत इति नावतिष्ठते । सत्यां तु तस्यां नाद्वैत मिति । अत एवाह सूत्रकारः सङखचैकान्तासिद्धिः प्रमाणोपपत्यनु. पपत्तिभ्याम्' (न्या. सू. 4-1-4) इति ॥
[मात्माद्वैतवादनिराकरणोपसंहारः] यदि तावदद्वैतसिद्धौ प्रमाणमस्ति. तहि तदेव द्वितीयमिति नाद्वैतम्। अथ नास्ति प्रमाणम्, न तरामद्वैतम्, अप्रामाणिकायाः सिद्धरभावादिति ॥
*मन्त्रार्थवादोत्यविकल्पमूल
मद्वैतवादं परिहृत्य तस्मात् । उपेयतामेष पदार्थभेदः । प्रत्यक्षलिङगागमगम्यमानः ॥
[शब्दाद्वैतवादनिराकरणम् ] एतेन शब्दाद्वैतवदोऽपि प्रत्युक्तः
'अनादिनिधनं ब्रह्म शब्दतत्त्वं यदक्षरम्। विवर्ततेऽर्थभावेन प्रक्रिया जगतो यतः'
. (वा.प.1-1) इति II . 'उच्यते-तत्र अनादिनिधनपदनिवेदितापूर्वापरान्तरहिता वस्तु. सत्ता नित्यत्वम्, ब्रह्मपदप्रतिपादितं च व्यापित्वमित्युभयमपि शब्दस्य प्रागेव निरस्तम्। निरवयवश्व स्फोटात्मा शब्दः प्रतिक्षिप्त एव ।
___ * 'नेह नानास्ति' इत्यादयः मन्त्राः। 'एकमेवाद्वितीयम्' इत्यादयः भर्थवादाः ॥ ____ र:-च, एकमेव सं-च, ' यदु-च.