________________
475 नवममाह्निकम्
. [सत्यस्यैव सर्वत्र निवर्तकत्वम् ] ननु ! गकारोऽयमिति गृह्यमाणः स रेखासन्निवेशः अर्थप्रत्यायको भवति, न चासौ तेन रूपेणास्ति-मैवम्-स्वरूपेण' सतोऽर्थस्य रूपान्त रेणापि गृह्यमाणस्य कूटकार्षापणादेरिव व्यवहारहेतुता दृश्यते च, युक्ता च*। यस्तु स्वरूपत एव नास्ति, 'न, तस्य स्वात्मना परात्मना वा व्यवहाराङगता समस्ति। रेखासनिवेशश्च स्वरूपेण सन्निति वर्णात्मत्वे. नासन्नपि तत्कार्याय पर्याप्नुयात् । न त्वयम् अविद्यायां न्यायः, स्वरूपा. सत्त्वात्तस्याः ॥
सर्पादौ तु सर्पादिस्वरूपवत् तद्ज्ञानस्यापि तत्कार्यत्वमवगतम् ॥ अतएव शङकाविषस्यापि स्वशास्त्रेषु चिकित्सामुपदिशन्ति ॥
एवं "वन गुहाकुहरदेशा देष निस्सृतः केसरी सरोषमित एवाभिव. तते' इत्यसत्येऽप्युक्ते यद्भीरूणां पलायनादि, शूराणां च सोत्साहमायुधोधमनादि सत्यं कार्य'मुपलभ्यते, तत्र सिंहज्ञानस्य तत्कार्यत्वात् नासत एवोपायत्वम् ॥ . .
___ एतेन प्रतिबिम्बदृष्टान्तोऽपि प्रत्याख्यातः, खड्गादेः मुखादिकालुष्य कल्पनाकारणस्य तत्र सद्भावात् । इह तु तदभावादिति ॥
[ एकात्मवादे बद्धमुक्तादिष्यवस्थानुपपत्तिः ] यदपि बद्धमुक्तव्यवस्थासिद्धये पादवेदनाद्युदाहृतम्-तदप्येवमपाकृतम्-अवच्छेदकस्य पादादेः तत्र तात्त्विकत्वात्। इह तु भेदकल्पनाबीजमद्वैतवादिनां दुर्घटमिति बहुशः प्रदर्शितम् ||
___* रजी हि सर्पभानम् , न तु शून्ये । तथाङ्गीकारे तु निरधिष्ठानभ्रमवादः स्यात् ॥
1 णा-ख, नव-ख,
व-ख, स्वस्ख-च, रा-ख ' रूपमु-ख.
त-ख,