________________
474
न्यायमञ्जरी इति च तदपि न चतुरश्रम्-आकाशावच्छेदहेतोः 'घटादेर्घटमानत्वात् । अविद्यायास्त्वसत्त्वात् तत्कृतः परमात्मनोऽवच्छेद इति विषमो दृष्टान्तः । अवच्छेद का भावाच्च जीवविभागकल्पनाऽपि निरवकाशैव ||
पासमवः]
.. [अदिद्याया अनादित्वासंभवः ] यच्च इतरेतराश्रयत्वं परिहर्तुमनादित्वमावेदितं अविद्यायाः-तत्र बीजाङकुरवत् , वाद्यन्तरोपगतसंसारवच्च तस्याः सत्यत्वमेव स्यात् । अनादिप्रबन्धप्रवृत्तत्वे 'सत्त्वे चा रयाः प्रतिकूलहेत्वन्तरोपनिपातकृतमपाकरणमुचितम्। एकात्मवादिनां तु तदतिदुर्घटमित्यनिर्मोक्ष एव स्यात् । यथाऽऽह भट्टः
'स्वाभाविकीमविद्यां च नोच्छेत्तुं कश्चिदर्हति। . विलक्षणोपपाते हि नश्यत् स्वाभाबिक *क्वचित् ।। न त्वेकात्माऽभ्युपा या ना हेतुरस्ति विलक्षणः'
(श्लो. वा. 1-1-5 संब 86) इति ॥
[अविद्याया न बन्धनिवर्तकत्वसंभवः ] यत्पुनः अविद्यैव विद्योपाय इत्यत्र दृष्टान्तपरम्परोद्घाटनं कृतंतदपि क्लेशाय, नार्थसिद्धये। सर्वत्रोपायस्य स्वरूपेण सत्त्वात् । असतः खपुष्पादेरुपायत्वाभावात्। रेखागकारादीनां तु वर्णरूपतया सत्त्वं यद्यपि नास्ति ; तथापि स्वरूपतः सत्त्वं विद्यत एव ।।
* सत्येनातपादिना हि सत्यस्य शैत्यादेनिवृत्तिसंभवः ॥ * अभ्युपायः-अभ्युपगमः ॥
1-ख धी-ख.
कित्वा-ख, घ,
द्वेद्या-ख, दभ्य-च,
चा-ख,