SearchBrowseAboutContactDonate
Page Preview
Page 506
Loading...
Download File
Download File
Page Text
________________ 473 नवममाह्निकम् - अनादिना प्रबन्धन प्रवृत्ताऽऽवरणक्षमा। यात्नो'च्छेद्याप्यविद्येयं असती कथ्यते कथम् ॥ अस्तित्वे क एनामुच्छिन्द्यादिति चेत्-कातरसन्त्रासोऽयम् । सता मेव हि वृक्षादीनां उच्छेदो दृश्यते, नासतां शशविषाणादीनाम्। तदियमुच्छेद्यत्वादविद्या नित्या मा भूत् , सती तु भवत्येव ॥ नित्यं न शक्यमुच्छेत्तुं सदनित्यं तु शक्यते । असत्त्वमन्यत् , अन्या च पदार्थानामनित्यता ॥ - [अविद्या भावरूपापि ] ने च तत्त्वाग्रहणमात्रमविद्या, संशयविपर्ययावप्यविद्यैव । तौं च भावस्वभावत्वात् कथमसन्तौ भवेताम् ? ग्रहणप्रागभावोऽपि नास निति शक्यते वक्तुम् , अभावस्याप्यस्तित्वसमर्थनादिति सर्वथा नासती अविद्या॥ असत्त्वे च निषिद्धेऽस्याः सत्त्वमेव बलाद्भवेत् । सदसद्व्यतिरिक्तो हि राशिरत्यन्तदुर्लभः ॥ '. सत्त्वे च द्वितीयाया* अविद्याया भावान्नाद्वैतम् ॥ _ [जीवस्य कल्पितत्वासंभवः ] - यत्तु ब्रह्मणः सततप्रबुद्धत्वात् अविद्याक्षेवता नेति जीवानामविद्या. स्पदत्वमभिहितम्, अविद्योपरमे ब्रह्मणि परमे त एव घटाकाशवल्लीयन्त * परब्रह्मापेक्षयेति शेषः ॥ 1 त्रो-ख.
SR No.002266
Book TitleNyayamanjari Part 02
Original Sutra AuthorN/A
AuthorK S Vardacharya
PublisherOriental Research Institute
Publication Year1983
Total Pages794
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy