________________
472
न्यायमञ्जरी [अभेदे न श्रुतिः प्रमाणम् ] . यस्तु आगमः पठितः ‘एकमेवाद्वितीयम्' 'नेह नानास्ति किंचन इत्यादिः-*तस्यार्थवादत्वान्न यथाश्रुत एवार्थो ग्रहीतव्यः ॥
[अर्थवादानां सर्वेषां न स्वार्थे प्रामाण्यम् ] . ननु ! सिद्धेऽप्यर्थे वेदस्य प्रामाण्यमभ्युपगतमेव भवद्भिः-बाढमभ्युपगतम्। किन्तु 'धूम एवाग्नेदिवा ददृशे नाचिः' इत्येवमादीनां प्रत्यक्षा. दिविरुद्धार्थाभिधायिनामर्थवादानां मुख्या वृत्तिमपहाय गौण्यापि वृत्त्या व्याख्यानमाश्रितम् । एवमि द'मपि वचनं इतरप्रमाण विरुद्धमर्थम भिदधत् अन्यथा व्याख्यायते ॥ .
ये तु प्रमाणान्तर विरुद्धार्थानुवादिनो न भवन्ति अर्थवादाः, तेषामस्तु स्वरूपे प्रामाण्यं 'वायुर्वं क्षेपिष्ठा देवता' इत्येवमादीनाम् ॥
तस्मात् सुखदुःखावस्थाभेदेऽपि नावस्थातुरात्मनो भेदः, देहेन्द्रियादि नानात्वेऽपि वा न तस्य नानात्वमित्येवं यथाकथंचिदयमर्थवादो योज. नीयः। अभेदोपदेशी तु तत्परः शब्दः विधिरूप इह नास्त्येव। एव. मागमबलादपि नाद्वैतसिद्धिः ।।
[अविद्यास्वरूपाचनुपपत्तिः] यत्पुनः अविद्यादिभेदचोद्यमाशङकयाशङकयपरिहृतम्-तत्राशङका साधीयसी। समाधानं तु न पेशलम् । तत्त्वान्यत्वाभ्यामनिर्वचनीयेयः मविद्येति कोऽर्थः ?
* जीवे परमात्मतौल्यबोधनायार्थवादः । तौल्यं च स्वतः निर्दु:खत्वादिना ।। + पूर्वसंपुटे 676तमपुटे ॥
1 दं विरुद्ध-च,
णा-ख,
वा-ख.