________________
471
नवममाह्निकम्
[प्रत्यक्षं भेदाभेदोभयविषयकम् ] यदप्युक्तं 'आहुविधातृ प्रत्यक्षं, न निषेद्धृ' इति–तदप्यसाधु'विधातृ' इति कोऽर्थः ? इदमपि
वस्तुस्वरूपं गृह्णाति नान्यरूपं निषेधति।
प्रत्यक्षमिति चेत्-मैव म्-ज्ञानं तहि न तद्भवेत् ॥ - अन्यरूपनिषेधमन्तरेण तत्स्वरूपपरिच्छेदस्याप्यसम्पत्तेः। पीता दिव्यवच्छिन्नं हि नीलं नीलमिति गृहीतं भवति, नेतरथा। तथा चाह 'तत् परिच्छि नत्ति, अन्यव्यवच्छिनत्ति' इति ॥
भाववदभावमपि गृहीतुं प्रभवति प्रत्यक्षमिति च साधितमस्माभिरेवैतत् । · तस्मादितरेतरविविक्तपदार्थस्वरूपग्राहित्वान्नाभेदविषयंप्रत्यक्षम् ॥
. [शब्दानुमानयोः भेदावलम्बनत्वम् ] शब्दानुमानयोस्तु संबन्धग्रहणाधीनस्वविषयव्यापारयोः भेदमन्तरेण* स्वरूपमेव नावकल्पत इति तावुभावपि भेदविषयावेव। विशेष.विषयत्वाभावेऽपि लिङगसामान्यस्य तदितरविलक्षणस्य परिच्छेदात् भेदविषयमनुमानम् ॥
शब्दस्य तु पदात्मनः तद्वदादिवाच्यभेदरूपस्य तु परस्परोपरक्तपदार्थपुंजस्वभावः, इतरपदार्थविशेषितान्यतमपदार्थरूपो वा वाक्यार्थी विषय इति पूर्वमेव निरूपितम्। अतः सर्वथा न भेदस्य प्रमाण'- बाधितत्वम् ॥ ___नाप्यभेदग्राहिी किंचन प्रमाणमस्ति यथोक्तेनैव न्यायेन ॥ .
* संबन्धः किल व्यत्योरेव, न सामान्ययोः ॥ * अभेदेत्यत्र केवलेत्यादिः ॥
म्-ख,
न त्व-ख,
३ दादिवा-ख,
णा-ख.