________________
477
नवममाह्निकम्
[ शब्दविवर्तवादोपन्यासः] यत्तु नित्यं 'व्यापि च 1 किचिदुच्यते, तत् शब्दतत्त्वमित्यत्र का युक्तिः। आह-शब्दोपग्राह्यतया च शब्दतत्त्वम् ।। __तथा हि सर्वप्रत्यय उपजायमानः नानल्लिखितशब्दः उपजायते । तदुल्लेखविरहिणः अनासादितप्रकाशस्वभावस्य प्रत्ययस्यानुत्पन्ननिर्विशेषत्वात्। एवमोदृशमित्यादिपरामर्शप्रमुषितवपुषि वेदने वेदनात्म. कतैव न भवेत् ॥
[ सर्वप्रत्यथाना शब्दानुविद्धवम् ] येऽपि वृद्धव्यवहारोपयोगवैर्यादनवाप्तशब्दार्थसंबन्धविशेषव्युत्पतयः बालदारकप्रायाः प्रमातारः, तेऽऽपि नूनं 'यत्' 'सत्' 'तत्' 'किम्' इत्यादिशब्दजातमनुल्लिखन्तो नं प्रतियन्ति किमपि प्रमेयम्। अत: शब्दोन्मेष प्रभावप्राप्तप्रकाशस्वभावत्वात* सर्वप्रत्यया नां शब्दानुविद्धं बोधकत्वमिति सर्व शब्दतत्त्वमित्यवधार्यताम्। (व. 4. 1.134) तदाह'
'न सोऽस्ति प्रत्ययो लोके यश्शब्दानुगमादृते।
अनुविद्धमिव ज्ञानं सर्व शब्देन गम्यते' इति ॥ एवमनभ्युपगमे तु संविदः प्रकाशशून्यतया अनधिगतविषयः सर्व एवान्धमूकप्रायो लोकः स्यात् । आह च (वा. प. 1-125)
'वाग्रुपता चेदुत्क्रामेदवबोधस्य शाश्वती। . .. न प्रकाशः प्रकाशेत सा हि प्रत्यवशिनी' इति ॥ .
अतः 'क्र मेण तावदेवं बोध्यसे, शब्दाख्यविशेषणानुवेधविशेषा भवात् सर्वं निर्विकल्पकन इन्द्रियजं स विकल्पकं वा ज्ञानं शब्दविशिष्ट
* शब्दार्थयोरविनाभावादिति यावत् ॥
1 वा-ख,
2 मिषित-च, ' नाम्-ख
- प्रक्र-ख,
अखं,