________________
469
नवनमाह्निकम्
[बद्धमुक्तव्यवस्थोपपत्तिः] ननु!, परमात्मनो नित्यत्वात् जीवानामप्यन्योन्य'म'नन्यत्वमित्येक स्मिन् बद्धे, मुक्ते वा सर्वे बद्धाः मुक्ता वा स्युः-अयि कुतर्ककलुषितमते कथं बोध्यमानोऽपि न बुध्यसे। घटाकाशे हि घटभङगात् परमाकाशप्रतिष्ठे जाते, 'न पटाकाशोऽपि तथा भवति। एकस्यापि जीवात्मनः उपाधिभेदात् सुखदुःखानुभवभेदो दृश्यते-पादे मे वेदना' 'शिरसि मे 'वेदना' इति । तीव्रतरतरणितापोपनतात नुतर क्लमस्य च यत्रैव च शरिरावयवे शिशिरहरिचन्दन*स्थासकमुपरचयति परिजनः, तत्रैव तद्दुःखोपरमानुभवः नान्यत्रेति, एवमेकस्मिन्नपि परमात्मनि कल्पनामात्र प्रतिष्ठेष्वपि जीवात्मसु बद्धमुक्तव्यवस्था सिद्धयत्येवेति एकात्मवाद एवायमागमानुगुणः 'उपगन्तुं युक्तः, नानन्त्यमात्मनाम् ॥
ब्रह्मदर्शनमेवातः निःश्रेयसनिबन्धनम् । भेददर्शनमूढानां संसारविरतिः कुतः-इति ||
- [ब्रह्माद्वैतवादनिराकरणम् ] ___ अत्राभिधीयते-कपटनाटकरहस्यप्रक्रियाकू!परचने तदनुगुणदृष्टान्तपरम्परोप पादने च किमुच्यते परं कौशलं भवताम् ! प्रमाणवृत्तनिरू‘पणे तु तपस्विन एव भवन्तः। तथा हि-भेदस्य प्रमाणबाधितत्वात् किमयमभेदाभ्युपगमः भवताम्, उत स्वित् अभेदस्यैव प्रमाणसिद्धत्वा. दिति । द्वयमपि नास्ति । प्रत्यक्षादीनि हि सर्वाण्येव भेदप्रतिष्ठानि · प्रमाणानि ॥
*स्थासक-चन्दनादिलेपगम् ॥
1 मप्य-च. 2 ऽपि-ख, 'नु-ख, म्ला-ख, 'यु-ख,
प-ख, सुख, वे-ख,
दर्श-च.