SearchBrowseAboutContactDonate
Page Preview
Page 501
Loading...
Download File
Download File
Page Text
________________ 468 न्यायमञ्जरी माना सती अविद्यान्तरमुत्सादयति, स्वयमप्युत्सीदति । यथा पयःपयों जरयति, स्वयं च जीर्यति। विषं विषान्तरं शमयति, स्वयं च शाम्यति । यथा वा द्रव्यान्तररजः क्षिप्तं रजःकलुषितेऽम्भसि तच्चात्मानं संहृत्य स्वच्छमम्बु करोति। एवमियमविद्येवाविद्यान्तरमुच्छिन्दन्ती विद्योपायतां प्रतिपद्यते ॥ [ असत्यादपि सत्य सिद्धिः] ननु ! स्वरूपेणासत्यैवेयमविद्या कथं सत्यकार्यं कुर्यात् ? उच्यते-- असत्यादपि सत्यार्थसम्पत्तिरुपपत्स्यते । मायासदियो दृष्टाः सत्य प्र'लय'हेतवः ।। रेखागकारादयश्चासत्याः सत्यार्थप्रतीत्युपाया दृश्यन्ते। स्वरूपेण सत्यास्त इति चेत्–किं तेन क्रियते। गकारादित्वेन हिं ते प्रति. पादकाः। तच्चैषामसत्यमिति | [शुद्धस्यापि ब्रह्मणोऽविद्ययाऽऽवरणम् ] . . ननु ! ब्रह्मणो नित्यशुद्धत्वात् जीवानां च ततोऽनन्य त्वात् कथं तेष्वविद्याऽवकाशं लभते-परिहृतमेतत् घटाकाशदृष्टान्तोपवर्णनेन ॥ अपि च यथा विशुद्धमपि वदनबिम्बं अम्बुमणिकृपाणदर्पणाधुपाधिवशेन श्यामदीर्घस्थूलादिरूपमपारमार्थिकमेव दर्शयति, तथा ब्रह्मणस्तदः भावेऽपि जीवेषु सदवकाश इति ।। *प्रलय:-मरणम् ॥ 1 मय-ख, मिति-च, न्य-ख,
SR No.002266
Book TitleNyayamanjari Part 02
Original Sutra AuthorN/A
AuthorK S Vardacharya
PublisherOriental Research Institute
Publication Year1983
Total Pages794
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy