SearchBrowseAboutContactDonate
Page Preview
Page 500
Loading...
Download File
Download File
Page Text
________________ 467 नवममाह्निकम् [जीवाज्ञानवादः] तत् किं ब्रह्मण एवाविद्या? -न च ब्रह्मणोऽविद्या। यथा टेकमेव घटाद्यावरणोपहितभेदतया भिन्नमिव विभाति नभः-पटाकाशं घटाकाश मिति, तदावरणवशादेव च रजोधूमादिकलुषितमपि भवति, तदावरणविरतौ तु गळितकालुष्यमले तत्रैव परमे व्योम्नि लीयते तथै व 'जीवा' त्मानोऽपि अविद्याकल्पितभेदाः तत्कृतमनेकप्रकारकालुष्यमनुभवन्ति । तदुपरमे च परे ब्रह्मणि लीयन्ते इति ॥ . [अन्योन्याश्रयपरिहारः] ननु ! एवं सत्यप्पविद्यापरिकल्पित एष ब्रह्मजीवात्मविभागः । सा च जीवात्मनामविद्येत्युच्यते। तदेतदितरेतराश्रयमापद्यते-अविद्याकल्पनायां सत्यां जीवात्मानः, जीवात्मसु च सत्सु अविद्येति-भवत्वितरेतराश्रयम्। अविद्याप्रपंच एवायमशेषः। कस्यैष दोषः ? यदि वाऽनादित्वमस्य परिहारो बीजाङकुरवद्भविष्यति। भव. द्भिरपि चायमनादिरेव संसारोऽभ्युपगतः। अविद्ययैव च संसार इत्युच्यते ॥ [ अविद्यानिवृत्त्युपायः] ननु! अनादेरविद्यायाः कथमुच्छेदः ? 'कि'मनादेरुच्छेदो न भवति • *भूमे रूपस्य। भवद्भिर्वा कथमनादिस्संसार उच्छेद्यते ? ननु ! उपाये सत्यनादिरप्युच्छिद्यते। अद्वैतिनां कस्तदुच्छेदोपायः? अविद्यैवेति ब्रूमः। श्रवणमनन निध्या नादिरप्यविद्यैव । सा त्वभ्यस्य *अनादेः कालात्-मृदि विद्यमान रूपं पाकानश्यति किल ॥ 1 चा-ख, वस-ख, ३ कथ-च ध्या-ख.
SR No.002266
Book TitleNyayamanjari Part 02
Original Sutra AuthorN/A
AuthorK S Vardacharya
PublisherOriental Research Institute
Publication Year1983
Total Pages794
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy