________________
466
भ्यायमञ्जरी [बन्धमोक्षव्यवस्था ] ननु यद्ये'कमेव ब्रह्म, न द्वितीयं किंचिदस्ति, तहि तद्ब्रह्म नित्य शुद्धबुद्धस्वभावत्वात् मुक्तमेवास्ते। केन तद्वद्ध मिति किमर्थोऽयं मुमुक्षुणी प्रयत्नः । कुतस्त्यो वाऽयं विचित्र जगदवभासः - अविद्योच्छेदार्थों मुमुक्षुप्रयत्न इति ब्रूमः। ततस्त्य एवाय विचित्रजागदवभासः ॥ ..
[ अविद्यास्वरूपम् ] केयमविद्या ? ब्रह्मणो व्यतिरिक्ता चेत् नाद्वैतम् । . अन्यतिरेके तु. ब्रह्मव सा, ततो नान्याऽस्त्येषेति कथमुच्छिद्यत-मैवम्-वस्तुमीदंशि कुताकिकचोद्यानि क्रमन्ते । अविद्या त्वियमवस्तुरूपा, माया, मिथ्यावभासस्वभावाऽभिधीयते। तत्त्वाग्रहणमविद्या। अग्रहणं च नाम कथं वस्तुध'मैं विकल्प्यते ?
[अविद्याश्रयः ] ननु ! तत्त्वाग्रहणरूपाsपि कस्येयमविद्या। न हि ब्रह्मणो नित्य 'बुद्धस्वभावत्वादविद्या भवति। अन्यस्तु नास्त्येव तदाश्रयः। न च निरधिकरणमेव मिथ्याज्ञानं भवितुमर्हति-उच्यते-*जीवात्मनामविद्यार न ब्रह्मणः ॥
नन् ! के ते जीवात्मानः ? तेऽपि ब्रह्मणोऽन्यानन्यतया चिन्त्या एवआः ! क्षुद्रतार्किक ! सर्वत्रानभिज्ञोऽसि। ब्रह्मव जीवात्मानः, न ततोऽन्ये । न हि दहनपिण्डाद्भदेनापि भान्तः स्फुलिङगाः अग्निस्वरूपा ने भवन्ति ॥
___ * भामतीकारपक्षोऽयम् । विवरणकारस्तु ब्रह्माज्ञानवादी ॥ "
ए-ख,
घिन-ख,
५ म-ख, घ,
प्रबु-खः