SearchBrowseAboutContactDonate
Page Preview
Page 498
Loading...
Download File
Download File
Page Text
________________ 465 नवममाह्निकम् च तत्राभिन्नमन्यनिरपेक्षमवभाति । भेदस्त्वन्यापेक्ष* इति नाक्षजविज्ञानविषयतामुपयाति ॥ [ कारणस्यैव सत्यत्वम्, कार्यस्य मिथ्यात्वम् ] तत्र यथा मृद्रूपतातः प्रभृति यावत्कुम्भावस्थेत्यस्मिन्नन्तराळे आविर्भवतां तिरोभवतां च घटकपालशकलशर्कराकणादीनां कार्याणां रूपमपरमार्थसदेव व्यवहारपदवीमवतरति । परमार्थतस्तु मृत्तिकैव । यथाऽऽहुः 'मृत्तिकेत्येव सत्यम्' (छां. 6-1-4) इति । एवं तदपि मृत्तिकारूपं सत्तापेक्षया न परमार्थसदिति सत्तैव सर्वत्र परमार्था। तदेव सल्लक्षणं ब्रह्मेत्याहुः ॥ आगमश्च 'एकमेवाद्वितीयं' (छो. 6-2-1) इत्यादिः अभेदमेव दर्शयति 'नेह नानास्ति किंवन। मृत्योस्त मृत्युमाप्नोति य इह नानेव पश्यति' इति च ॥ . [प्रत्यक्षस्य शात्राविरोधित्वम् ] न च प्रत्यक्षविरुद्धत्वमभेदशंसिनो वक्तुं शक्यमागमस्य। न ह्यन्यनिषेधे प्रत्यक्ष प्रभवति, स्वरूपमात्रग्रहणे परिसमाप्तव्यापारत्वात् । पररूप निषेधमन्तरेण च भेदस्य दुरुपपादत्वात् भेदे कुण्ठमेव प्रत्यक्षमिति कथमभेदग्राहिणं आगमं विरुन्ध्यात् । तदुक्तं 'आहुविधातृ प्रत्यक्षा न निषेधृ विपश्चितः । नैकत्व आगमस्तेन प्रत्यक्षेण विरुध्यते ॥' * प्रतियोगिस्मरणादिसापेक्षः ॥ * प्रत्यक्षं विधायकम्, न निषेधकम्, प्रतियोगिनः तेन उपस्थापयितुमशक्यत्वात् ॥ 1 च-ख, रू-ख, 'म-ख. 30
SR No.002266
Book TitleNyayamanjari Part 02
Original Sutra AuthorN/A
AuthorK S Vardacharya
PublisherOriental Research Institute
Publication Year1983
Total Pages794
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy