________________
464
न्यायमञ्जरी 'भूतभाव्युपयोगं हि द्रव्यं संस्कार्यमिष्यते । सक्तवो नोपयोक्ष्यन्ते नोपयुक्ताश्च ते क्वचित्'
(तं. वा. 2-1-4-12) इति ॥ [स्वतः पुरुषार्थानां न फलान्तरम् ] यस्य तु संस्कार्यमनर्घमिव रत्नम् अपर्युषितमिवामृतम्, अनस्त. मितविव चन्द्रबिम्बम , अपरिम्लानमिव शतपत्रमस्ति, कस्तहि प्रकरण
पाठा पेक्षायां अर्थवादमुखप्रेक्षणेन फलकल्पनायां वाऽभिलाषः ? अत एव न कामश्रुतिप्रयुक्तत्वमाधानस्य, न चाचार्यकरणविधिप्रयुक्तत्वमध्ययनस्येति ॥
तस्मात् स्वाध्यायाध्ययनान्माधानविधिसमानयोगक्षेमत्वात् आत्म. ज्ञानविधेः, तत्कृतमात्मज्ञानमपवर्गार्थमवगम्यते। तथाविधस्वरूप आत्मैव परोपाधिजनितधर्मरहितः अपवर्ग इत्युच्यते। यतः तदिदमित्थमात्मज्ञान मेव निःश्रेयससाधनं, अनन्यलभ्यमिति तदेवोपदिष्टवानांचार्योऽक्षपादः !! __ यत्तु विज्ञानसत्तात्मशब्दाद्यद्वैतदर्शनं–तत मिथ्याज्ञानमेवेति न निःश्रेयससाधनमिति ||
[ब्रह्माद्वैतवादनिरासः] ननु कथमद्वैतदर्शनं मिथ्या कथ्यते तत्। प्रत्युत 'द्वैत दर्शनमविद्या मायाऽपि, मिथ्याज्ञानमिति युक्तम् । तथा हि-प्रत्यक्षमेव तावत् निपुणं निरूपयतु भवान्। तत्र हि यदन्यानपेक्षतया झगिति पदार्थस्वरूपमवभासते*, तत् पारमाथिकम , इतरत् काल्पनिकमिति गम्यते। सद्रूपमेव च
_ * परमुखनिरीक्षणं हि स्वप्राधान्यं निवर्तयति ॥
1 सं-ख,
' योगा-च,
. भेद-च.