________________
463
नबममाह्निकम्
__ [ आत्मज्ञानस्य मोक्षसाधनत्वं विधिसिद्धम् ] सूक्ष्मदर्शिनस्त्वाहुः-इयमपि महती दुर्गतिः, यत् अर्थवादमुखप्रेक्षिस्वमस्यो'क्तम धिकारविधेः। विश्वजिति रात्रिसत्रे वा किमन्यत क्रियः ताम्। न हि विश्वजिद्रूपपर्यालोचनतः कश्चिदधिकारी लभ्यत इति बलात स्वर्गकामादिः कल्प्यते वा, अर्थवादसमपितो वावलम्ब्यते । यत्र तु विधिस्वरूपमहिम्नैव तदुपलम्भः, तत्र कि कल्पनया, किमर्थवाद. वदनावलोकनदैन्येन वा ॥
'इह च 'स्वाध्यायोsध्येतव्यः' इतिवत 'अग्नीनादधीत' इतिवद्वा कृत्ये न द्वितोयया वा ईप्सिततमत्व निर्देशात तन्निष्ठत्वमेवावतिष्ठते । तत्र यथाऽग्न्यर्थतयाऽऽधानविधिरवगम्यमानः अग्नीनामनेकविधपुरुषाथौंपयिककर्मकलापोपयोगात् तदार्जनेनैव कृतार्थत्वमुपगत इति न फलान्तरमपेक्षते, यथा वा स्वाध्यायोऽध्येतव्यः' इत्यक्षरग्रहणार्थत्वात् अस्य विधेः अक्षरग्रहणस्य च फलवकर्मावबोधद्वारेण परमपुरुषार्थापायत्वावधारणान्न तदतिरिक्तघृतमधुकुल्यादिफलान्तरापेक्षित्वम्। न चाध्यापनविध्यङगत्वं, स्वमहिम्नवेप्सिततमसंस्कारद्वारकाधिकारलाभात् एवमिहाप्यपहतपाप्माद्यात्मस्वरूपपरिज्ञानमेव तस्य परम'पुरुषार्थतामवबोधयन्नस्य विधेरन्यप्रयोजनतामापादयति ॥ __ *कश्चित् किल संस्कारविधिः संस्क्रियमाणनिष्ठोऽपि संस्क्रियमाणप्रयोजनापेक्षया परमुखप्रेक्षी भवति-'ब्रीहीन प्रोक्षति' इतिवत् । कश्चित्तु संस्क्रियमाणप्रयोजनमलभमानः तदीप्सिततमत्वानिर्वहणात्-संस्कारविधित्वमेव जहाति 'सक्तून् जुहोति' इतिवत्। यथोक्तम्--
* व्रीहीणां प्रोक्षणसंस्कृतानां पुरोडाशाद्युपयुक्तत्वात्तथात्वम्। सक्तूनां तु न तथोपयोगः, होमेन भस्मीभावात् ॥
1 त्तमा-ख,
घिस्वरू-ख,
द्वाक्यत्वे-च,
र-ख.