SearchBrowseAboutContactDonate
Page Preview
Page 495
Loading...
Download File
Download File
Page Text
________________ 462 न्यायमञ्जरी सा चेयं साध्यमानाऽपि *रूपादेव हि शाश्वती। चकास्त्यपुनरावृत्तिः न स्वर्गवदपायिनी ॥ _[आत्मज्ञानस्य न दृष्टफलसंभवः ] ननु ! दृष्टप्रयोजनालाभे सति अदृष्टप्रयोजनपरिकल्पनावसरः । इह च दृष्टमेव प्रयोजनमात्मज्ञानस्य कर्मप्रवृत्तिहेतुत्वमुपलभ्यते। नित्येनात्मना विना भूतेष्वेवाचेतनेषु श्मशा नावधिषु बहुवित्तव्ययायास. साध्यानि को नाम ज्योतिष्टोमादिकर्माण्यनुतिष्ठेदिति नित्य एवात्मा परलोको ज्ञातव्यः । एवं हि निर्विशङकः कर्मसु प्रवर्तेतेति ॥ . तदिदमनुपपन्नम्-अन्यत एव सिद्धत्वात् । प्रत्यभिज्ञाप्रत्यक्ष प्रत्यः येन जैमिनीयः, अनुमानमहिम्ना च नैयायिकादिभिः आत्मा नित्य इति निश्चित एव। किमत्र विधिः करिष्यति। इतिकर्तव्यताकलापोपदेशश्च तदानीमत्यन्तनिष्प्रयोजनः स्यात् ॥ [वेदस्य फलवत्त्वम् ] अमी च तथा' नामातिमहान्तो वेदग्रन्था इयत्येव पर्यवसन्ना इति ?-तदिदमुपनतम्-सेयं महतो वंशस्तम्बात् ल ट्वाऽऽकृष्यत इति। तस्मादर्थवादसमर्पितमपुनरावृत्तिरूपमेव फलमात्मज्ञानविधिरवलम्बत इत्येवं केचित् ॥ * रूपं-स्वरूपम् । ध्वंसरूपा हि सा ॥ + 'कीदृशं पापं मया जन्मान्तरे कृतम्' इत्यादिप्रत्यभिज्ञयेत्यर्थः ॥ * लट्वा-सूक्ष्मशलाका.॥ 1 नाशा-ख, थ्य-ख, ३ ड्रवा-च:
SR No.002266
Book TitleNyayamanjari Part 02
Original Sutra AuthorN/A
AuthorK S Vardacharya
PublisherOriental Research Institute
Publication Year1983
Total Pages794
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy