SearchBrowseAboutContactDonate
Page Preview
Page 494
Loading...
Download File
Download File
Page Text
________________ 461 नवममाह्निकम् शब्दाद्वैतनिश्चयादिति वैयाकरणाः ॥ विज्ञानाद्वैतदर्शनादिति शाक्यभिक्षवः ॥ प्रकृतिपुरुषविवेकविज्ञानादिति पारमर्षाः ॥ ईश्वरप्रणिधानादिति चान्ये* || तदेवं कस्मै तत्त्वज्ञानाय स्पृहयन्तु मुमुक्षवः इति वाच्यम् ॥ .. [आत्मतत्त्वज्ञानस्यैवापवर्गोपायस्वम् ] उच्यते-भिन्नास्तावदात्मान इति गृह्यतामात्मज्ञानमेव निःश्रेय. साङगमिति ॥ यत्तु-कुतस्तस्य निःश्रेयससाधनत्वमवगतमिति ; अक्षपादवचनादिति ब्रूमः। अक्षपादस्ताव'देव'मुपदिष्टवान् 'आत्मज्ञानान्निःश्रेयसाधिगमः' इति। न च निष्प्रमाणकमर्थमेष ऋषिरुपादिशदिति भवित. व्यमत्र प्रमाणेन । तत्तु वैदिकं विधिवाक्यं आत्मा ज्ञातव्यः' इति ॥ - स एष तावन्न निरधिकारः विधिः; अधिकाररहितस्य च विधेः प्रयोगयोग्यत्वाभावात् । अधिकारान्वेषणमुपक्रमणीयम्। परप्रकरणपरिपठनविरहाच्च नास्य समिदाधिविधिवत् प्रधानाधिकारनिवेशित्वम् । अतः विश्वजिदधिकरणन्यायेन स्वर्गकाममधिकारिणमिह यावदुपा दातु.मध्यवस्यामः, तदैव 'न स पुनरावर्तते' इत्यर्थवादसपितेयमपुनरावृत्तिरेव हृदयपथमवतरति, रात्रिसत्र इव प्रतिष्ठेति तामेवास्य फलत्वेन तिपद्यामहे ॥ * पातञ्जलाः॥ * 'आस्मा वारे द्रष्टव्यः' इत्यस्यार्थानुवादोऽयम् ॥ 1 दिद-ख, वत्-ख, ३ त्त-ख.
SR No.002266
Book TitleNyayamanjari Part 02
Original Sutra AuthorN/A
AuthorK S Vardacharya
PublisherOriental Research Institute
Publication Year1983
Total Pages794
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy