________________
460
न्यायमञ्जरी ___ अध्यात्मविदश्च ज्ञानकाण्डौंपयिकमेव क्रियाकाण्डं मन्यन्ते। साक्षात्तु कर्मसाध्येऽपवर्गे स्वर्गवदपायित्वप्रसङगात कृतकस्य सर्वस्यानित्यत्वात् तत्त्वज्ञानमेव मोक्षोपाय इत्युक्तम् ॥
... [यमनियमादीनामपि ज्ञानाङ्गत्वम् ] यदपि यमनियमा'दि साध्य मङगभूतं कर्मजातम्, तदपि तदङगता गच्छन्न वार्यते। *तत्कार्यत्वेऽपि-यावद्गुणप्रध्वंसाभावस्वभावत्वात मोक्षस्य न क्षयित्वं स्वर्गवत् । अन्यस्तु न मोक्ष इत्युक्तम् ॥ .
तत्पूर्वोक्तप्रक्रमेणापवर्ग
प्राप्तेस्तत्त्वज्ञानमेवाभ्युपायः । कर्म त्वङगं तत्र शौचादि किंचित् किंचित्तत्स्या दात्मसंस्कारपूर्वम् ।
[मोक्षहेतुतत्त्वज्ञानस्वरूपविचारः] आह-तत्त्वज्ञानमिदानी विचिन्त्यताम् - किंविषयं तदपवर्गाय कल्पते ? कुतो वा तस्य निःश्रेयससाधनत्वमवगतमिति ||
नन ! आत्मज्ञानमपवर्गहेतुरिति बहुशः कथितमेवैतदिति कोऽयं प्रश्नः ?-न-विप्रतिपत्तेः। विप्रवदन्ते ह्यत्र वादिनः ॥
[ मोक्षहेतुज्ञानविषये पक्षभेदाः] एक एवायम्। अविद्यापरिकल्पितः जीवात्म परमात्मविभागः । प रमात्मतत्त्वज्ञानादविद्यापाय मोक्ष इति ब्रह्मवादिनः ।।
* अङ्गिनः यत् फलम् तदेव किलाङ्गस्यापि ॥
1 दिषु-ख,
'भूत-ख,
द्वा स्या-च,
प-ख.