SearchBrowseAboutContactDonate
Page Preview
Page 492
Loading...
Download File
Download File
Page Text
________________ 439 नवममाह्निकम् यतामहे । स हि पुरा भोक्ताऽभूदिति मुक्तोऽपि पुनर्भोक्तृतां प्रतिपद्येतेति वरमुच्छिद्यन्तामेव ॥ सामग्रयभावात क'थमसौ पुनः भोक्तृतां गच्छेत् ? इति चेत्कर्माण्यपि सहकार्यभावात् कथं कार्यमारभेरन ? न च कर्मणां बन्धकरणे रागादयो न सहकारिण इति वक्तुं शक्यते ; 'वीतरागस्य जत्मादर्शनात्' इत्यसकृदुक्तत्वात्। तस्मादयमेव सूत्रकारोपदिष्टः पन्थाः पेशल: 'न प्रवृत्तिः प्रतिसन्धानाय हीनक्लेशस्य' इति ॥ - [ज्ञानकर्मसमुच्चयवादखण्डनम् ] यच्चेदमुच्यते ज्ञानकर्मसमुच्चयान्मोक्ष इति-तत्रेदं वक्तव्यम् । कर्मणां कीदृशो मोक्षं प्रत्यङगभावः ? न हि तत्सा'ध्यो मोक्षः; स्वर्गा दिवदनित्यत्वप्रसङगात् । ____ अपि च-आत्मैव स्वरूपावस्थितो मोक्ष इत्युच्यते ; न चात्मस्वरूपं कर्मसाध्यम् , अनादिनिधनत्वेन सिद्धत्वात् ॥ [कर्मणां चित्तकषायनिवर्तकत्वम् ] ननु ! नित्यकर्माननुष्ठाने प्रत्यवेयादिति तद्वारकबन्धपरिहारोपायत्वात् कर्मापि मोक्षाङगं स्यात-न-सन्यासविधानस्य प्रत्यक्षोपदेशादि त्युक्तत्वात्। अपरिपक्वकषायाणां शनैश्शनस्तत्परिपाकौपयिकत्वेन कर्मानुष्ठानं पारम्पर्येणापवर्गोपाय इति तु बाढमभ्युपगम्यते । यथाऽऽहं मनुः ____ 'महायज्ञैश्च यज्ञैश्च *ब्राह्मीयं क्रियते तनुः' इति ॥ * ब्राह्मी-ब्रह्मप्राप्त्यहाँ ॥ 1-ख कर्मसा-ख
SR No.002266
Book TitleNyayamanjari Part 02
Original Sutra AuthorN/A
AuthorK S Vardacharya
PublisherOriental Research Institute
Publication Year1983
Total Pages794
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy