SearchBrowseAboutContactDonate
Page Preview
Page 491
Loading...
Download File
Download File
Page Text
________________ 458 . . न्यायमञ्जरी 'अनेकजन्मसंसिद्धस्ततो याति परां गतिम्' (गी-6 45) इति ॥ ज्ञानाग्निदाहवचनं तु ज्ञानप्रशंसार्थमेव । सोऽयं ज्ञानकर्मसमुच्चयान्मोक्ष उच्यत इति ॥ __ [ज्ञानकर्मसमुच्चयवादनिरासारम्भः] अत्राभिधीयते-न खल फलोपभोगद्वारकः कर्मणां परिक्षयः जन्मकोटिशतैरपि शक्यक्रियः। उक्तं हि 'एकमेवेदृशं कर्म कर्तुमापतति क्वचित् । . .. . जन्मायुतशतेनापि यत्फलं भुज्यते न वा ॥ देहैस्तत्कर्मभोगाथैः कर्मान्यन्न करिष्यते । देहबन्ध नमित्येषा दुराशैव तपस्विनाम् ॥' तदीदृशमेनं मोक्षपथमुपदिशद्भिर्याज्ञिकः,मोक्षोपेक्षणमनक्षरमुपदिष्टं भवतीति। तस्मात् पूर्वोक्तनोत्यैव कर्मणो बन्धहेतुत्वमपाकरणीयम् ॥ [कर्मनाशस्वरूपनिश्चयः] . ननु ! पक्षचतुष्टयेऽपि दोष उक्तः*-न-चतुर्थपक्षस्य निरवद्यत्वात्। सहकारिवैकल्यात् कुसूलावस्थितबीजवत् कर्मणामनारम्भकत्वे सति न कश्चिद्दोषः। एष एव च तेषां दाहः, यत् कार्यानारम्भक त्वम् ॥ [ कर्मणां फलादानम् ] . ननु ! अविनष्टस्वरूपाणि कुसूलबीजवदेव कदा चिरादारप्स्यन्ते कार्यम्। तस्माद्वरमुच्छिद्यन्तामेव। किमिदानी नित्यमात्मानमप्युच्छेत्तुं * 'अपरे' इत्यादिना 455 पुटे उक्तः । चतुर्थः पक्षः 454 पुटे उक्तः ॥ 1 श-ख, कर्मसाध-ख.
SR No.002266
Book TitleNyayamanjari Part 02
Original Sutra AuthorN/A
AuthorK S Vardacharya
PublisherOriental Research Institute
Publication Year1983
Total Pages794
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy