________________
नवममाह्निकम्
457 एवंच तदेव दापौर्णमासादिकर्म 'यावज्जीवं' इति चोदनयोपदिष्टं नित्यं सत् तत्फलान भसन्धानात् प्रयुक्तं न बन्धाय कल्पते। क्व सा स्वर्गसाधनत्वशक्ति अस्य गतेति चेत-न-न वयं कर्मणां शक्तिमशक्ति वा प्रत्यक्षतः प्रपश्यामः। शास्त्रकशरणास्तु श्रोत्रिया वयम् । चोदनैव धर्मे प्रमाणमिलि नः कुलव्रतमेतत्। सा च चोदना एकत्र कामिनमधिकारिणमाश्रित्य प्रवृत्ता। तदधिकारश्च फलनिवृत्तेविना न स्यादिति फलपर्यन्ततां प्रतिपद्यते ||
अन्यत्र तु यावत्पदोपबद्धजीवनपदार्थांवच्छिन्नाधिकारिलाभेन प्रवर्तः माना न फलाय प्रभवति । अक्रियमाणे तु शास्त्रार्थे प्रत्यवा'याय' भवति अधिकृतेन सता शास्त्रार्थस्त्यक्त इति। काम्ये त्वनुत्पन्नकामोऽधिकृत एव न भवतीति नाधिकृतेन सता विधिस्त्यक्त इति न प्रत्यवतीति । उपक्रम्य त्वन्तराले त्यक्तुं न लभत एव । वीतायां फलेच्छायां, आवाप्ते वा फले तत्कर्मसमापन वदवश्यकर्तव्यमेव तदित्यलं शास्त्रान्तरगर्भेण भूयसा कथाविस्तरेण ॥
सर्वथा सुष्टूक्तं नित्यनैमित्तिकै कुर्यात्' इति ॥
[ मोक्षस्य दुर्लभत्वम् ननु ! भोगात् प्राक्तनकर्मक्षयपक्षे दीर्घकालापेक्षणात् अप्रत्यासन्न इव मोक्षो लक्ष्यते-कि त्वया ज्ञातमधुनैव। हुंकृत्वा* निविलम्बमेव मोक्षमाप्नुयादिति। न खलु सुलभोऽयं पुरुषार्थः। किं न श्रुतमिदमायुष्मता क्यासवचनम्
* भर्त्सनादिनेति यावत् | नर्मोक्तिरियम् ॥
1 यो-च,
म-ख,
न-ख.