________________
556
न्यायमञ्जरी [ नित्यकाम्यकर्मविभागः] प्राक्तनस्य तु कर्मसंचयस्य भोगादेव क्षयः । आत्मविदश्च मुमः क्षोरयमनुष्ठानक्रमो भवति, नेतरस्येति स एवेत्थमपवृज्यत इति । आह च
'आत्मज्ञे चैतदस्तीति तद्ज्ञानमुपयुज्यते । तत्र ज्ञातात्मतत्त्वानां भोगात्पूर्वक्रियाक्षये ॥
उत्तरप्रचयासत्त्वात्* देहो नोत्पद्यते पुनः ॥' ननु ! नित्यकर्मनुष्ठानपक्षे नास्त्येव मोक्षः। यान्येव हि नित्यानि दर्शपौर्णमासादिकर्माणि 'यावज्जीवं दर्शपूर्णमासाभ्यां यजेत' इत्यादि. चोदनोपदिष्टानि, तान्येव फलवन्ति श्रूयन्त इति काम्यान्यपि भवितुम हन्ति 'दर्शपौर्णमासाभ्यां स्वर्गकालो यजेत' 'अग्निहोत्रं जुहुयान्स्वर्गकामः' इति-न-फलाभिसन्धानपूर्वकत्वेनाप्रयोगात् । तथाऽऽह- ,
'प्रार्थ्यमानं फलं ज्ञातं नानिच्छोस्तद्भविष्यति' इति । सोऽयं प्रवृत्तौ विशेषः। प्रयोगेऽपि विशेषः। काम्यं कर्म सर्वाङगोपसंहारेण प्रयुज्यमानं फलसाधनमिति न यथाशक्ति तया तथा प्रयोक्तव्यमिति । नित्यकर्मणः अकरणात् प्रत्यवाय इति यथाशक्त्यपि तत् प्रयोक्तव्यम्। अननुष्ठितात् 'यादृक् , तादृक् अनुष्ठितश्रेयःप्रत्यवायपरिहारोपपत्तेः ॥
काम्ये तु सर्वाण्यङगानि यद्यसावुपसंहर्तुं न शक्नुयात् , मा प्रवतिष्टा न ह्यप्रवर्तमानः प्रत्यवेयादिति ॥
* तथा च 'नाभुक्तम्' इत्यादिवचनं प्रारब्धकर्मविषयम्। 'यथैधांसि' इत्यादि संचितकर्मविषयमित्यविरोधः ॥
1 य-ख,
स-खः