________________
नवममाह्निकम्
455 स्संयोगः। न च तदानीमसौ सन्नपि सुखदुःखजानादिजन्मनि व्याप्रियते । एवं धर्माधमौं सन्तावपि फलपनाक्षिपन्तौ किं करिष्यत इति फलत उच्छिन्नीवेव भवतः। तस्मानवानामात्मगुणानामुच्छेदोऽपवर्ग इत्यविरुद्धम् ॥
एवं प्रवृत्त्यनुबन्धस्यापि बन्धहेतोरभावान्न दुर्गमोऽपवर्गः ॥
[ज्ञानकर्मसमुच्चयवादः] .. अपरे पुनराहुः-कर्मफलानां शास्त्रतः कार्यकारणभावनियमावगते: शमसन्तोषशीतातपादिद्वारकसुखदुःखमात्रोपपादनेन कर्मपरिक्षयानुपपत्तेः, योगद्धर्या च. दीर्घकालावधिसुखदुःखोपभोगस्य सकृदेव संपादयितुमशक्य त्वात् · ज्ञानाग्निना च दाहे तत्कर्मोपदेशिवैदिकवचनसार्था नर्थक्यप्रसङगात्, अदत्तफलस्य कर्मणोऽनुपरमात् , अवस्थानपक्षे चिरमप्युषित्वा कुसूलावस्थितबीजवत् कालान्तरेणापि तत्फलाक्षेपप्रसङगात् अवश्यं स्वफलोपभोगद्वारक एव कर्मक्षयो वाच्यः ॥ . न चानिर्मोक्ष आंशङालनीयः, 'ततश्चि रादपि तत्सिद्धिसंभवात् । तथा च मुमुक्षुनित्यनैमित्तिकं कर्मावश्यमनुतिष्ठेत् , अननुतिष्ठन् प्रत्यवेयादिति तत्कुतोऽस्य बन्धः स्यात् । काम्यं निषिद्धं च कर्म स्वर्गनरककारि विस्पष्टमेव बन्धसाधनमिति तत्परिहरेदेवेत्येवं तावदुत्तरोऽयं न कर्म संचयः प्रवर्तते । तदाह
..'नित्यनैमित्तिके कुर्यात् प्रत्यवायजिहासया । . .. मोक्षार्थी न प्रवर्तेत तत्र काम्यनिषिद्धयोः' इति ॥
___ * अयमेव सिद्धान्त इति वक्ष्यति। वस्तुतस्तु, फलादानस्य पक्षद्वयेऽपि समानस्वात् , धर्माधर्मयोस्तथैवावस्थानकथनमर्थहीनम् ॥
-
1 मा -च,
2 श्चि-ख,
३ सं-च,
क्षयसं-च.