________________
454
भ्यायमञ्जरी [कर्मणां फलजननशक्तिनाशपक्षः] तमन्ये न मन्यन्ते। न सर्वामना कर्मणां दाहः। किन्तु स्वरूपेण सतामपि सहकारिवैकल्यात् स्वकार्यकरणोदासीनता तेषां भवति, भ्रष्टा. नामिव बीजानामङकुरकरणकौशलहानिः । यतः सामग्री कार्यस्य जनिका, 'न' केवलं कारकम् । अतो न कर्माण्येवकेवलानि फलोपभोगयोग्यशरीरेन्द्रियादिजन्मनिमित्ततामुपयान्ति। किन्तु मिथ्याज्ञानेन दोषैश्च सहि तानि । तदुक्तं 'अविद्या तृष्णे धर्माधमौं च जन्मकारणम्' इति ॥
तत्त्वविदश्च तत्त्ववित्त्वादेव नाविद्या मिथ्याज्ञानात्मिका भवति । दोषाणां तु प्रथमे दर्शित एव क्रमः। तदभावे भवन्तावपि धर्माधमौं न बधाय कल्पेते। न हि स्वकार्यमङकुरादि कुसूलवर्तीनि बीजानि जनयितुमुत्सहन्ते ॥
भ्रष्ट बीजानामपि स्वरूपशक्तिरपि *तानवं गता। तद्वत् कर्मणां स्वरूपशक्तिशैथिल्यं मा नाम भत् । तथापि कुसूलवति बीजवत् सहकारि वैधुर्यात् कार्यानारम्भ इति । तदिदसुक्तं न प्रवृत्तिः प्रतिसन्धानाय हीनक्लेशस्य' (न्या-सू-4-1-64) इति || . ..
[धर्माधर्थयोः न संपूर्णनाशः] ननु स्वरूपसत्तायां धर्माधर्मयोः कथमिदमुक्तं नवानामात्मगुणानां निर्मूलीच्छेदोऽपवर्ग इति–नैष दोषः-मनस्संयोगवदकिंचित्करयोरवस्था नमपि उच्छेदान्न विशिष्यते। मुक्तस्यात्मनः विभुत्वादपरिहार्यो मन
-
* तानवं-तनुताम् । न तु संपूर्णनाशः ॥
। हीनक्लेशस्य-नष्टदोषस्य प्रवृत्तिः, प्रतिसन्धानाय-वासनायनुवृत्तये न-न प्रभवति ।
1 न कर्माण्येव-च,