SearchBrowseAboutContactDonate
Page Preview
Page 486
Loading...
Download File
Download File
Page Text
________________ .. नवममाह्निकम् 453 [कर्मणां फलनैयत्येऽपि न हानिरिति पक्षः] ननु ! अमुष्मात्कर्मणः इदं फलं भवतीति* कर्मफलानां कार्यकारण भावनियमात , कथमियता कर्मफलोपभोगो भवेदित्यन्यथा तदुपभोगमपरे वर्णयन्ति। योगी हि यो गधि सिद्धया विहितनिखिलनिजधर्माधर्मकर्मा निर्माय तदुपभोगयोग्यानि तेषु तेषूपपत्तिस्थानेषु तानि तानि सेन्द्रियाणि शरीराणि', रण्डान्तःकरणानि च मुक्तैरात्मभिरुपेक्षितानि गृहीत्वा *सदेव सकलकर्मफलमनुमति प्राप्तश्वर्य इतोत्थमुपभोगेन कर्मणां क्षयः ॥ - [तत्त्वज्ञानेन कर्मणां नाशपक्षः ] अन्ये त्वाचक्षते-किमनेन भोगायासेन, अदत्तफलान्येव कर्माणि योगिनो नङक्ष्यन्ति । तत्त्वज्ञानस्यैव भगवत इयान् प्रभावः, यदस्मिन्नुत्पन्ने चिरसंचितान्यपि कर्माणि सहसैव प्रलयमुपयान्ति। भोगादपि तेषां प्रायः शास्त्रप्रामाण्यादेवावगतः। तथा तत्प्रामाण्यादेव तत्त्वज्ञाना दपि तत्प्रक्षयं प्रतिपत्स्यामहे। तथा चाह 'यथैधांसि समिद्धोऽग्निः भस्मसात्कुरुतेऽर्जुन । ज्ञानाग्निः सर्वकर्माणि भस्मसात्कुरुते तथा' (गी.4-37) इति ।। न चेदं श्रद्धामात्रम् , वेदविदामग्रण्या व्यासमुनिनैव समभिधानात् , अवेदार्थं हि नासावभिदधीतेति ॥ * न तु शीतातपादिरूपम् ॥ + परकायप्रवेशादिना। रण्डेत्यादि-तत्स्वामिनोऽभावात् ॥ * सौभर्यादिः दृष्टान्तः॥
SR No.002266
Book TitleNyayamanjari Part 02
Original Sutra AuthorN/A
AuthorK S Vardacharya
PublisherOriental Research Institute
Publication Year1983
Total Pages794
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy