________________
452
भ्यायमञ्जरी
[सुषुप्त्यादौ शुद्धस्यात्मनो लेशतो भानम् ]
यदप्युक्तं क्लेशशून्यत्वमात्मनो न कदाचिदपि दृष्टम् , अनुबन्धवृत्तित्वात् क्वेशानामिति-तदप्यसत्यम्-सुषुप्तावस्थायामस्पृष्टस्य दोषैरात्मनः प्रत्यहमुपलम्भात्। जाग्रतोऽपि का चन तादृशी दशा दृश्यत एव। यस्यामसावात्मस्वरूप एवात्मा निर्मलोऽवतिष्ठते। यथोक्तं 'अहरहर्ब्रह्म.. लोकं यान्ति' इति । तदलमनेन दोषानुबन्धकथानुबन्धेन ।
__[प्रवृत्तीनां विरतिसंभवः ] यदपि प्रवृत्त्यनुबन्धादि ति प्रत्यपादि-तदपि सूत्रकृता समाहितम् -'न प्रवृत्तिः प्रतिसन्धानाय हीनक्लेशस्य (न्या-सू. 4-1-64) इति । दोषेषु बन्धहेतुषु विगलितेषु प्रवृत्तिरपि न देहेन्द्रियादिजन्मने प्रभव. तीति ॥
[ कर्मक्षयप्रकारवर्णनम् ] ननु दोषक्षयान्मा भूत् उत्तरः कर्मसङग्रहः । ,
कथं फलमदत्त्वा तु प्राक्तनं कर्म शाम्यति ।। अत्र केचिदाहुः-ददत्येव कर्माणि, 'नादत्त्वा शाम्यन्ति ; तथापि बन्धहेतवो न भवन्ति । यतः शमसन्तोषादिजनितं योगिनः सुखमुत्पाद्य धर्मो विनङक्ष्यति, अधर्मश्च शीतातपक्लेशादिद्वारकं दुःखं दत्त्वेति ||
* तर्हि किमर्थो मोक्षार्थप्रयत्नः इति चेत्-जाग्रतः पूर्ववत् क्येशानुवृत्तरवर्जनीयस्वात् । तदानीमपि पूर्णस्य स्वरूपस्य भानाभावात् ॥
ति-ख.
द-ख.