SearchBrowseAboutContactDonate
Page Preview
Page 484
Loading...
Download File
Download File
Page Text
________________ नवममाह्निकम् 451 इह सर्वात्मनोच्छेद्याः क्लेशाः संसारकारिणः । छेदश्चैकान्ततस्तेषां प्रतिपक्षोपसेवया ।। न च प्रतिपक्षमावनाभ्यासमेकं अस्त्रमपास्य तदुपशमे निमित्तान्तरं किमपि क्रमते || [ भोगानां नोपभेगेन क्षयः] न हि विषयाभिलाषस्तदुपभोगेन विरंस्यति। यथाऽऽह 'न जातु कामः कामानामुपभोगेन शाम्यति । हविषा कृष्णवर्मेव भूय एवाभिवर्धते ।।' (म-भा-मा-85-12) अन्यत्राप्युक्तम्-'भोगाभ्यासमनु विवर्धन्ते रागा', कौशलानि चेन्द्रियाणाम्' इति ॥ पाराशर्योऽपाह 'तृष्णाखनिरगाधेयं दुष्पूरा केन पूर्यते । ___ या महद्भिरपि क्षिप्तैः पूरणेनैव खन्यते' इति ।। तस्मात् प्रतिपक्षभावनैव भगवती भीमकान्तिः अन्तःकरणकान्तारे निरन्तरमभिज्वलन्ती दावदहनदीधितिरिव दहति दोषविटपकानिति । तदेवं दोषानुबन्धविध्वंसोपायसंभवान्न तत्कृतो मोक्षमार्गनिरोधोsभिधातव्यः ॥ - [क्लेशाद्यनुबन्धनिवृत्तिमात्रं साध्यम् ] . अत एव केचन चेतनस्य प्रकृत्या निर्मलत्वात् मलानामागन्तुकत्वात् , मलनिबर्हणहेतोश्च यथोक्तस्य संभवात् , तदा चरणात्तद पाये सति स्वत. स्सकलपदार्थदर्शनसामर्थ्यस्वभावचित्तत्त्वावस्थानात सर्वज्ञसिद्धिमदूरवति. नीमेव मन्यन्ते ॥ 1 ते-ख, वरणा-ख.
SR No.002266
Book TitleNyayamanjari Part 02
Original Sutra AuthorN/A
AuthorK S Vardacharya
PublisherOriental Research Institute
Publication Year1983
Total Pages794
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy