SearchBrowseAboutContactDonate
Page Preview
Page 483
Loading...
Download File
Download File
Page Text
________________ 450 भ्याथमञ्जरी व्यात्तानना विवृत्ताक्षी विवर्णा श्वासघुर्घरा। कथमद्य न रागाय म्रियमाणा तपस्विनी ॥ अहो 'बत' वराकोऽयं अकाले तृषितः फणी। प्रसारितमुखोऽस्माकं शोणितं पातुमागतः ।। *किमनेनापराद्धं नः स्वभावो वस्तुनः स्वयम् । स्पृश्यमानो दहत्यग्निः इति कस्मै प्रकुप्यति ।। नानुकूल प्रिये हेतुः प्रतिकूलो न विप्रिये। स्वकर्मफलमश्नामि कः सुहृत्कश्च मे रिपुः ॥ एवमहानिशं चिन्तयतो नितान्तं "शान्तस्य मनसः' समचिंत्तता सर्वत्र समुद्भवतीति विलीयन्ते दोषग्रन्थयः ॥ अत एवोपदिश्यन्ते मोक्षशास्त्रेष्वनेकशः । . . तस्यं तस्योपघाताय तास्ताः प्रत्यूहभावनाः॥ [प्रतिपक्षभावनया दोषक्षयः ] ननु च प्रतिपक्षभावनेऽपि न सर्वात्मना 'दोष पक्षः क्षयमुपयाति । निम्बाभ्युपयोग इव क्रियमाणे कफधातुरिति-नैतदेवम-तत्र निम्बोपयों गवत् तदनुकूलस्या नपाना देरुपयोगदर्शनात् । अपि च धमिलोपभयात्तत्र नेष्टः सर्वात्मना क्षयः । कफाधिक्यं तु हन्तव्यं धातुसाम्यस्य सिद्धये ॥ * विरोधिदर्शनेऽपि द्वेषाभावाभ्यासायोज्यते-किमित्यादि । धर्मी-शरीरम् ॥ 1 व्रणे-ख, प्यास्ते-खः । मूल-च, 'तपा-ख. दिवं-ख, मन:-ख,
SR No.002266
Book TitleNyayamanjari Part 02
Original Sutra AuthorN/A
AuthorK S Vardacharya
PublisherOriental Research Institute
Publication Year1983
Total Pages794
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy