SearchBrowseAboutContactDonate
Page Preview
Page 482
Loading...
Download File
Download File
Page Text
________________ 449 · नवममाह्निकम् [प्रतिपक्षभावनया क्लेशक्षयः] मिथ्याज्ञानस्य च सम्यग्ज्ञानम् प्रतिपक्षभावनाभ्यासेन च समूलमुन्मीलयितुं शक्यन्ते दोषाः इति नाज्ञातप्रतीकारत्वं तेषाम्। उक्तं च केन चित् (प्र-वा. 3-220) *सर्वेषां सविपक्षत्वात् नि सातिशयाश्रितात् । सात्मीभावात्तदभ्यासात् हीयेरना स्रवाः कवचित् ॥ ___ इति। विषयदोषदर्शनेन हि तेषु सक्तिलक्षणो रागः शाम्यति । यदा ह्येष चिन्तयति विवेकी असौ तरलताराक्षी पीनोन्नतधनस्तनी। विलुप्यमाना कान्तारे विहगैरद्य दृश्यते ॥ विभाति बहिरेवास्याः पद्मगन्धनिभं वपुः । अन्तर्मज्जास्थिविण्मूत्रमेदःक्रिमिकुलाकुलम् ॥ अस्थीनि पित्तमुच्चाराः क्लिन्नान्यान्त्राणि शोणितम् । होत चर्मपिनद्धं तत् कामिनीत्यभिधीयते ॥ मेदोग्रन्थी स्तनौ नाम तौ स्वर्णकलशौ कथम् । विष्ठादृतौ नितम्बे च कोऽयं हेमशिलाभ्रमः॥ मूत्रासृग्द्वारमशुचि च्छिद्रं क्लेदि जुगुप्सितम् । तदेव हि रतिस्थानं अहो पुंसां विडम्बना ॥ प्रीतिर्यथा निजास्योत्थं लिहतः शोणितं शुनः ।। शुष्केऽस्थिनि तथा पुंसः स्वधातुस्यन्दिनः स्त्रियाम् ॥ * द्वन्द्वरूपत्वात् जगति सर्वस्य, तत्तद्विरोधिगुणानामभ्यासात् आस्रवाःदोषाः हीयेरन् । सात्मीभावः-आत्मना समरसभावः ॥ 1 ल-च, ता:-ख, ३ मुना-ख -ख. 29
SR No.002266
Book TitleNyayamanjari Part 02
Original Sutra AuthorN/A
AuthorK S Vardacharya
PublisherOriental Research Institute
Publication Year1983
Total Pages794
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy