SearchBrowseAboutContactDonate
Page Preview
Page 481
Loading...
Download File
Download File
Page Text
________________ 448 न्यायमञ्जरी [गृहस्थस्यापि मोक्षः] केचित्तु-कर्मफलाभिसन्धिरहितस्य, कर्तव्यमिति कर्म कुर्वतः क्षीणरागस्यात्मविदः गृहस्थस्यापि * मोक्षमाचक्षते । यथाऽऽह याज्ञवल्क्यः 'न्यायाजितधनस्तत्त्वज्ञाननिष्ठोऽतिथिप्रियः । श्राद्धकृद्वेदविद्यावित् गृहस्थोऽपि विमुच्यते' इति । तस्मादृणानुबन्धादपवर्गाभाव इत्ययुक्तम् ॥ __ [क्लेशानां परिहारोपायः] यत्तु क्लेशानुबन्धादिति-तदप्यनध्यवसायमात्रम् । प्रतिपक्ष- . भावनादिना क्लेशोपशमस्य सुशकत्वात् । यदि हि दोषा नित्या भवेयुः, . अनित्यत्वेऽप्याकस्मिका वा, सहेतुत्वेऽपि य येषां नित्यो हेतुर्भवेत् । कार्यो ऽपि वा यद्यसौ न ज्ञायत', ज्ञातस्य वाऽस्य शमनोपायो न ज्ञायत, ज्ञातोऽपि वाऽनुष्ठातुमसौ न शक्येत, तदा क एवैनमुच्छिन्द्यात् । किन्तु नाकस्मिका न नित्यास्ते न नित्याज्ञातहेतुकाः । नाज्ञातशमनोपायाः न चाशक्यप्रतिक्रियाः ॥ न हि दोषाणां आत्मस्वरूपवन्नित्यत्वं, उपजननापायधर्मकत्वेन ग्रहणात् मिथ्याज्ञानं च प्रसवकारणमेषामवधृतमिति नाकस्मिकत्वम् , अविनाशिहेतुकत्वम् , अज्ञातहेतुकत्वं वा ॥ * 'भवेत्सरागस्य तपोवनं गृहं निवृत्तरागस्य गृहं तपोवनम्' इति हि प्रसिद्धम् ॥ + प्रतिपक्षभावनाः - अविद्यादिविरोधिनः ज्ञानाभ्यासादयः प्रतिपक्षभावनाः , 'अहिंसाप्रतिष्ठायां वैरत्यागः' इत्यादियोगशास्त्रोक्ताः ॥ . 1 यो-ख, ३ य-ख, ॐ ज्ञा-ख.
SR No.002266
Book TitleNyayamanjari Part 02
Original Sutra AuthorN/A
AuthorK S Vardacharya
PublisherOriental Research Institute
Publication Year1983
Total Pages794
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy