SearchBrowseAboutContactDonate
Page Preview
Page 480
Loading...
Download File
Download File
Page Text
________________ नवममाह्निकम 447 जरामर्यवादः प्रशंसामात्रपर एवावतिष्ठते। 'जरया है वा एष एतस्मान्मुच्यते मृत्युना वा' इति च वचनात् जरसा कर्मत्यागानुज्ञानात् स एव चतुर्थाश्रमावसर इति गम्यते। तदुक्तम्-. 'गृहस्थस्तु यदा पश्यत् वलीपलितमात्मनः । अपत्यस्यैव चापत्यं तदाऽरण्यं समाश्रयेत् ॥ ___(म.स्मृ.6.2) इति ॥ इतर था हि 'मृत्युनैव च तस्मान्मुच्यते' इत्यवक्ष्यत, च त्वेवमब्रवीत्। तस्मात् वार्धकदशोचितं चतुर्थमाश्रममनुमन्यन्ते ॥ _ . [ विरक्तस्य सर्वस्य सन्यासाधिकारः] तिष्ठतु वा वार्धकदशा। यूनोऽपि परिपक्वकाषायस्याश्रमचतुष्टय क्रममनपेक्ष्यव मोक्षाधिकार आख्यातः । यथोक्यं 'ब्रह्मचर्यादेव प्रव्रजेत्' इति । अत एव द्विविधो ब्रह्मचारि भवति-उपकुर्वाणः नैष्ठिकश्च । तत्र उपकुर्वाणकः यो ब्रह्मचर्यमनुभूय गृहस्थाश्रममनुभवति। स चापरि पक्वकषायः, अनुषशान्त'रागः । तमेव प्रतीदमुच्यते 'अनधीत्य द्विजो वेद न अनुत्पाद्य च सन्ततिम् । अनिष्टवा चैव यज्ञैश्च मोक्षमिच्छन्* व्रजत्यधः' (म स्मृ.6,37) इति॥ यस्तु परिपक्वकषायः स नैष्ठिक एव ब्रह्मचारी भवति, न गृहस्थामें प्रतिएहते। गृहस्थोऽपि परिपक्वक्षायः वानप्रस्थाश्रममुल्लङघ्य यतित्वेऽधिक्रियते। यथोक्तम्-'गृहाद्वा वनाद्वा प्रव्रजेत्' इति ॥ * 'पतत्यधः' इति प्रसिद्धः पाठः ॥ ___1 गार्हस्थ्यरा-ख.
SR No.002266
Book TitleNyayamanjari Part 02
Original Sutra AuthorN/A
AuthorK S Vardacharya
PublisherOriental Research Institute
Publication Year1983
Total Pages794
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy